महासुभाषितसंग्रह · श्लोक 2163-2182
अप्रदीपा यथा रात्रिर् अनादित्यं यथा नभः ।
तथासांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि ॥
अप्रधानः प्रधानः स्यात् पार्थिवं यदि सेवते ।
प्रधानोऽप्यप्रधानः स्याद् यदि सेवाविवर्जितः ॥
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥
अप्रमत्तेऽपि पुरुषे हितकार्यावलम्बिनि ।
दैवमुन्मार्गरसिकम् अन्यथैव प्रमद्यते ॥
अप्रमादश्च कर्तव्यस् त्वया राज्ञः समाश्रये ।
त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः ॥
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ॥
अप्रसादोऽनधिष्ठानं देयांशहरणं च यत् ।
कालयापोऽप्रतीकारस् तद् वैराग्यस्य कारणम् ॥
अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम् ।
छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान् निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः ॥
अप्राकृतः स कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च ।
लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविनयौ च पराक्रमश्च ॥
अप्राकृतस्य चारितातिशयस्य भावैर् अत्यद्भुतैर्मम हृतस्य तथाप्यनास्था ।
कोऽप्येष वीरशिशुकाकृतिरप्रमेय- सामर्थ्यसारसमुदायमयः पदार्थः ॥
अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर् महापकाराय रिपोर्विवृद्धिः ॥
अप्राज्ञेन च कातरेण च गुणः स्याद् भक्तियुक्तेन कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत् किं भक्तिहीनात् फलम् ।
प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ॥
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानम् अवमानं च भारत ॥
अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन् ।
प्राप्नुयाद् बुद्धिशैथिल्यम् अपमानं च शाश्वतम् ॥
अप्राप्तकालो यो मूर्खो हसेत् स्वेच्छानुसारतः ।
प्राप्नुयाद् बुद्ध्यवज्ञानं सभायां चैव शाश्वतम् ॥
अप्राप्तकेलिसुखयोरतिमानरुद्ध- संधानयो रहसि जातरुषोरकस्मात् ।
यूनोर्मिथोऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् ॥
अप्राप्तपुष्पोद्गमविभ्रमैव रुद्धा भुजङ्गेन तथा यथेयम् ।
न शक्यते स्प्रष्टुमपीहमानैर् आमोदिनी चन्दनशाखिकेव ॥
अप्राप्तप्रथमावकर्तनरुषा व्यानम्रमूकीभवद्- वक्रेष्वन्यशिरःसु यस्य दहने छिन्नं शिरो जुह्वतः ।
उच्चार्य स्वयमेव मन्त्रमकरोन्नास्याहमित्यात्मनस् त्यागं पङ्क्तिमुखः स विक्रमसुहृद्वीरः कथं वर्ण्यते ॥
अप्राप्तयौवना नारी न कामाय न शान्तये ।
संप्राप्ते षोडशे वर्षे गर्दभी चाप्सरायते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0