भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2143-2162

2143

अप्युन्नतपदारूढः पूज्यान् नैवापमानयेत् ।
नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥

2144

अप्युन्मत्तात् प्रलपतो बालाच्च परिसर्पतः ।
सर्वतः सारमादद्याद् अश्मभ्य इव काञ्चनम् ॥

2145

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥

2146

अप्युद्दामव्यसनसरणेः संगमे कामुकानां भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौलशस्य ।
अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः प्रौढोत्साहास्तव सुवदने स्वस्तिमन्तो विलासाः ॥

2147

अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः ।
ज्याकार्मुकयोः कश्चिद् गुणभूतः कश्चिदपि भर्ता ॥

2148

अप्येतद्रजनीमयं जगदथो निद्रामयी सा निशा निद्रा स्वप्नमयी भवेदथ च स स्वप्नो मृगाक्षीमयः ।
सेयं मानमयी मम प्रियतमा तच्चाटुचेष्टामयो मादृक् क्वेति समीहितैकविधये संकल्प तुभ्यं नमः ॥

2149

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राजदोषपरामृष्टास् तिष्ठन्ते नापराधिनः ॥

2150

अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने ।
आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वाद् आबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः ॥

2151

अप्रकटवर्तितस्तन- मण्डलिकानिभृतचक्रदर्शिन्यः ।
आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥

2152

अप्रकटीकृतशक्तिः शक्तोऽपि जनात् तिरस्क्रियां लभते ।
निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥

2153

अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।
यच्च बाहुबलं भीरोर् व्यर्थमेतत् त्रयं भुवि ॥

2154

अप्रगल्भाः पदन्यासे जननीरागहेतवः ।
सन्त्येके बहुलालापाः कवयो बालका इव ॥

2155

अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥

2156

अप्रणाद्योऽतिथिः सायं सूर्योढो गृहमेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥

2157

अप्रतिकृत्यात्मानं सहसानर्थेषु न प्रवर्तेत ।
शिरसि धृतेऽमृतकिरणे विषमघसद्विषमनेत्रोऽपि ॥

2158

अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम् ।
नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥

2159

अप्रतिष्ठाश्च ये केचिद् अधर्मशरणाश्च ये ।
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥

2160

अप्रत्यक्षाणि शास्त्राणि विवादस्तत्र केवलम् ।
प्रत्यक्षं ज्यौतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ ॥

2161

अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं यदपरं दोषोऽयमेको महान् ।
शम्बूकोऽपि यदत्र दुर्लभतरै रत्नैरनर्घैः सह स्पर्धामेकनिवासकारणवशादेकान्ततो वाञ्छति ॥

2162

अप्रदाता समृद्धोऽसौ दरिद्रश्च महामनाः ।
अश्रुतश्च समुन्नद्धस् तमाहुर्मूढचेतसम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc