महासुभाषितसंग्रह · श्लोक 2123-2142
अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥
अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
न केवलमसंमानं लभते च विडम्बनम् ॥
अपृष्ट्वैव भवेन्मूढज्ञानं मनसि चिन्तनात् ।
अपूर्णः कुरुते शब्दं न पूर्णः कुरुते घटः ॥
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ॥
अपेताः शत्रुभ्यो वयमिति विषादोऽयमफलः प्रतीकारस्त्वेषामनिशमनुसंधातुमुचितः ।
जरासंधाद्भग्नः सह हलभृता दानवरिपुर् जघानैनं पश्चान्न किमनिलसूनुः प्रियसखः ॥
अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा ।
अदूरविरहोत्कण्ठादुःखं दुःकेन सह्यते ॥
अप्यखिलालंकारा- नाकलयन्तोऽपि रसविदश्चित्रम् ।
कलयन्ति सरसकाव्ये नालंकारं कदाचिदपि ॥
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥
अप्यतिशयितमनर्थं शमयत्यर्थं समर्पयन् नृपतिः ।
तमनर्पयन् निरर्थं प्राणेन समं परित्यजत्यर्थम् ॥
अप्यत्युच्चो भूमिसमः पार्थिवोऽपि न पार्थिवः ।
मानार्थं जीवितं तस्य कृते माने न जीवति ॥
अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥
अप्यनावर्जिताः स्वेन फलरागेण संनताः ।
अर्भकैरपि गृह्यन्ते साधुसंतानशाखिनः ॥
अप्यनेकैरुपचितैर् दुर्विनीतैः सुतैरलम् ।
निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥
अप्यभीष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
वासना इव संसारे मोहनैकपराः स्त्रियः ॥
अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ।
बाष्पो वाहीकनारीणां वेगवाही कपोलयोः ॥
अप्याकरसमुत्पन्नमणिजातिरसंस्कृता ।
जातरूपेण कल्याणि न हि संयोगमर्हति ॥
अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः ।
प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥
अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् ।
विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः ॥
अप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां वासन्तीमपि सौधभित्तिपतितामात्मप्रतिच्छायिकाम् ।
मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥
अप्युत्कटे च रौद्रे च शत्रौ यस्य न हीयते ।
धैर्यं प्राप्ते महीपस्य न स याति पराभवम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0