महासुभाषितसंग्रह · श्लोक 2103-2122
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥
अपूर्वः कोऽपि तन्वङ्ग्या मम मार्गः प्रदर्शितः ।
योगं चिन्तयतो येन राग एव विवर्धते ॥
अपूर्वकर्मचण्डालम् अपि मुग्धे विमुञ्च माम् ।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥
अपूर्वदेशाधिगमे युवराजाभिषेचने ।
पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥
अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुर्भृङ्गमुखराः शिरः शेखरशालिनः ॥
अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन् वपुषा कटाक्षैर्विजयश्रिया ॥
अपूर्वा रसनाव्याली खलाननबिलेशया ।
कर्णमूले दशत्यन्यं हरत्यन्यस्य जीवितम् ॥
अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
अतिमोहापहारिण्यः सूक्तयो हि महीयसाम् ॥
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृतपूर्विणस्तु त्यजतो महान् धर्म इति श्रुतिः ॥
अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः ।
मार्गणौघः समायाति गुणो जाति दिगन्तरम् ॥
अपूर्वो दृश्यते वह्निः कामिन्याः स्तनमण्डले ।
दूरतो दहते गात्रं गात्रलग्नः सुशीतलः ॥
अपूर्वो भाति भारत्याः काव्यामृतफले रसः ।
चर्वणे सर्वसामान्ये स्वादुवित् केवलं कविः ॥
अपूर्वोऽयं कान्ते ज्वलति मुखदीपस्तव चिरं तमो द्रष्ट् णां यो जनयतितरां याति सुतनो ।
अधस्ताद्यत्रेयं बत सुरभिधूमालकततिर् यदीया वार्तैव ज्वलयति पतंगानिव जनान् ॥
अपूर्वोऽयं धनुर्वेदो मन्मथस्य महात्मनः ।
शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥
अपूर्वोऽयं पन्थाः शिव तव विभुत्वस्य कतमो जगद्बन्धो यत्ते पदयुगमकामं प्रणमताम् ।
प्रयाति प्रध्वंसं न खलु दुरितं केवलमिदं चिरोपात्तं सद्यः सुकृतमपि सर्वं विगलति ॥
अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने ।
शोऽन्तरं यो विजानाति स विद्वन्नात्र संशयः ॥
अपृच्छं पुत्रदारादींस् तैरुक्तोऽहं रघत्तम ।
पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥
अपृष्टस्तस्य न ब्रूयाद् यश्च नेच्छेत् पराभवम् ।
एष एव सतां धर्मो विपरीतोऽसतां मतः ॥
अपृष्टस्तु नरः किंचिद् यो ब्रूते राजसंसदि ।
न केवलमसंमानं लभते च विडम्बनाम् ॥
अपृष्टेन न वक्तव्यः सचिवेन विपश्चिता ।
नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0