भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2083-2102

2083

अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् ।
स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥

2084

अपि स्वल्पतरं कार्यं यद्भवेत् पृथिवीपतेः ।
तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥

2085

अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् ।
देवानां च विनाशः स्याद् ध्रुवं तस्य गुरोरपि ॥

2086

अपि स्वैः सर्वस्वैः पुनरपधनैः कैरपि धनैः परित्राणैः प्राणैर्यदपि च विधेयं परहितम् ।
तदद्यैतच्छब्दात् परभृत भवत्येव भवतस् ततः शब्दालस्यं कथमपि निरस्यं क्षणमपि ॥

2087

अपीडयन् बलं शत्रूञ् जिगीषुरभिषेणयेत् ।
सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितम् ॥

2088

अपीतक्षीबकादम्बम् असंमृष्टामलाम्बरम् ।
अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ॥

2089

अपुत्रत्वं भवच्छ्रेयो न तु स्याद्विगुणः सुतः ।
जीवन्नप्यविनीतोऽसौ मृत एव न संशयः ॥

2090

अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात् पुत्रमुखं दृष्ट्वा भवेत् पश्चाद्धि तापसः ॥

2091

अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥

2092

अपुत्रस्य गृहं शोच्यं शोच्यं राज्यमराजकम् ।
निराहाराः प्रजाः शोच्या शोच्यं मैथुनमप्रजम् ॥

2093

अपुनर्देहिशब्दार्थम् अप्रत्युपकृतिक्षमम् ।
अर्थिनं कुरुते कश्चित् पुनरावृत्तिवर्जितम् ॥

2094

अपुष्यत घनावली भुवनजीवनैर्यत्करैर् अवर्ध्यत सुधारुचिर्बहुबुधालिसंतर्पणः ।
तमन्धतमसच्छिदं रविमवेक्ष्य जाज्वल्यसे त्वमेव रविकान्ततामयसि हन्त किं कुर्महे ॥

2095

अपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य ।
यद्यस्ति दूती सरसोक्तिदक्षा दासः पतिः पादतले वधूनाम् ॥

2096

अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् ।
गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥

2097

अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥

2098

अपूज्या यत्र पूज्यन्ते पूज्यानामप्यमानना ।
तव दैवकृतो दण्डः सद्यः पतति दारुणः ॥

2099

अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति ।
तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥

2100

अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने ।
दिवापि जाग्रतां पुंसां चेतो हरसि दूरतः ॥

2101

अपूर्वं यद्वस्तु प्रथयति विना कारणकलां जगद् ग्रावप्रख्यं निजरसभरात् सारयति च ।
क्रमात् प्रख्योपाख्याप्रसरसुभगं भासयति तत् सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ॥

2102

अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च ।
एकस्य शाम्यति स्नेहाद् वर्धतेऽन्यस्य वारितः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc