भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2063-2082

2063

अपि वटतरोः स्पर्धां बीजेन सर्षप सांप्रतं परिणमसि यो मुष्टिः शाकं सति स्थलसौष्ठवे ।
जठरकुहरक्रीडद्विश्वो यदेकदलोदरे प्रलयशिशुको देवः शिश्ये पुरेति ह शुश्रुमः ॥

2064

अपि वर्षशतं स्थित्वा सदा कृत्रिमरागिणी ।
वेश्या शुकीव निःश्वासा निःसङ्गेभ्यः पलायते ॥

2065

अपि विधिः कुसुमानि तवाशुगान् स्मर विधाय न निर्वृतिमाप्तवान् ।
अदित पञ्च हि ते स नियम्य तांस् तदपि तैर्बत जर्जरितं जगत् ॥

2066

अपि वीर्योत्कटः शत्रुर् यतो भेदेन सिध्यति ।
तस्माद् भेदः प्रयोक्तव्यः शत्रूणां विजिगीषुणा ॥

2067

अपि वेत्ति षडक्षराणि चेद् उपदेष्टुं शितिकण्ठमिच्छति ।
वसनाशनमात्रमस्ति चेद् धनदादप्यतिरिच्यते खलः ॥

2068

अपि शारदचन्द्रिका यदीयां तुलनां गच्छति दुष्करैस्तपोभिः ।
न तटुञ्झति मानसं मदीयं हसितं खञ्जनमञ्जुलोचनायाः ॥

2069

अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥

2070

अपि शिशिरतरोपचारयोग्यं द्वितयमिदं युगपन्न सह्यमेव ।
जरठितरविदीधितिश्च कालो दयितजनेन समं च विप्रयोगः ॥

2071

अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥

2072

अपि संतापशमनाः शुद्धाः सुरभिशीतलाः ।
भुजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ॥

2073

अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः ।
नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥

2074

अपि संभृतस्य सततं रिक्तत्वं बिभ्रतो विसर्जनतः ।
उदरस्योदारस्य च केवलमाकारतो भेदः ॥

2075

अपि सत्पथनिष्ठानाम् आशाः पूरयतामपि ।
अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ॥

2076

अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे मधु मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति ।
तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैरङ्गैः सङ्गो ममापि भविष्यति ॥

2077

अपि सर्वविदो न राजते वचनं श्रोतरि बोधवर्जिते ।
अपि भर्तरि नष्टलोचने विफलः किं न कलत्रविभ्रमः ॥

2078

अपि सहवसतामसतां जलरुहजलवद्भवत्यसंश्लेषः ।
दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद् भवति ॥

2079

अपि सागरपर्यन्ता विचेतव्या वसुन्धरा ।
देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥

2080

अपि सुभगं तव वदनं पश्यति सुभगे यदा यदा चन्द्रः ।
ग्लायति हन्त पिधत्ते सपदि मुखं स्वं पयोदान्तः ॥

2081

अपि स्थानुवदासीत शुष्यन् परिगतः क्षुधा ।
न त्वेवानात्मसंपन्नाद् वृत्तिमीहेत पण्डितः ॥

2082

अपि स्यात् पितृहा वैरी सोऽपि दानविलोभितः ।
गत्वा विश्वासभावं स शत्रोरात्मानमर्पयेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc