भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2043-2062

2043

अपि प्राणसमानिष्टान् पालितांल्लालितानपि ।
भृत्यान् युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥

2044

अपि बन्धुतया नारी बहुपुत्रा गुणैर्युता ।
शोच्या भवतिसा नारी पतिहीना तपस्विनी ॥

2045

अपि ब्रह्मपरानन्दादिदमप्यधिकं ध्रुवम् ।
जहार नारदादीनां चित्तानि कथमन्यथा ॥

2046

अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति ।
तदर्थेन विचीर्णेन न कथंचित्सुहृद्द्रुहः ॥

2047

अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः ।
नवपरिणयव्रीडावत्या मुखोन्नतियत्नतो- ऽप्यलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥

2048

अपि भोगिषु मणिधारिण एव निहंसि नतु यद्द्विषोऽपि परान् ।
तत्तव गरुड स्थाने दानवसंहारिवाहस्य ॥

2049

अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥

2050

अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् ।
प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको भवेत् ॥

2051

अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्तरस्य ।
अयि कथमधुना दधाति शान्तिं विषमशरज्वरतीव्रदेहदाहः ॥

2052

अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये ।
पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥

2053

अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥

2054

अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तोषं यान्ति सन्तः कियन्तः ।
निजघनमकरन्दस्यन्दपूर्णालवालः कलशसलिलसेकं नेहते किं रसालः ॥

2055

अपि मृगपतिना करीन्द्रकुम्भ- स्थलदलनोद्गतपौरुषेण यस्य ।
भयचकितदृशा प्रनष्टमुच्चैः स हि शरभीकुलराजचक्रवर्ती ॥

2056

अपि मृद्व्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः ।
नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति ॥

2057

अपि मेरूपमं प्राज्ञम् अपि शूरमपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥

2058

अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ।
बिशेषतोऽसहायेन किमु राज्यं महोदयम् ॥

2059

अपि राज्यादपि स्वर्गाद् अपीन्दोरपि माधवात् ।
अपि कान्ताकुचस्पर्शात् संतोषः परमं सुखम् ॥

2060

अपि लपितुमहं न हन्त शक्तस् तव पुरतः परितापमायताक्ष्याः ।
शिव शिव रसना यतो न यत्नाद् अपि यतते निजदाहशङ्कयेव ॥

2061

अपि ललितसुगुणवेणिः सालंकारापि या सुवर्णापि ।
रघुतिलक विहीना चेद् वाणी रमणीव नैव कल्याणी ॥

2062

अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् ।
सहन्ते गुणलोभेन त एव मणयो यदि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc