भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2023-2042

2023

अपि जलकणान् पयोधेर् दूरादाहृत्य जायते जलदः ।
निकटाद् घटानपि शतं समीहरन् वारिहार्येव ॥

2024

अपि तद्वपुषि प्रसर्पतोर् गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥

2025

अपि तरुवनान्यूष्मायन्ते तपत्यपि यामिनी दहति सरसीवातोऽप्येष ज्वलन्ति जलान्यपि ।
इति समधिकं ग्रीष्मे भीष्मे न पुण्यवतां भयं मलयजरसैर्दिग्धं लब्ध्वा वधूस्तनमण्डलम् ॥

2026

अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥

2027

अपि तेजो निधिर्हन्त पतितो यदि जायते ।
सुरतं किमिवास्माकम् इति कोकैर्वियुज्यते ॥

2028

अपि त्वया कैरविणि व्यधायि मुधा सुधाबन्धुनि बन्धुभावः ।
जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ॥

2029

अपि दलन्मुकुले बकुले यया पदमधायि कदापि न तृष्णया ।
अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ॥

2030

अपि दिनमणिरेष क्लेशितः शीतसंघैर् अथ निशि निजभार्यां गाढमालिङ्ग्य दोर्भ्याम् ।
स्वपिति पुनरुदेतुं सालसाङ्गस्तु तस्मात् किमु न भवतु दीर्घा यामिनी कामिनीयम् ॥

2031

अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरनेकधा निपुणैः ।
निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिच्छिला लक्ष्मीः ॥

2032

अपि नदथ निकामं दर्दुराः किं सुवर्ण- द्युतिभरमुपनीता नूतनैर्वारिपूरैः ।
अयमचिरविनाशी शोचनीयस्तु भावी स चिरमवटसीम्नि प्राच्य एव क्रयो वः ॥

2033

अपि नाम स दृश्येत पुरुषातिशयो भुवि ।
गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥

2034

अपि नित्यानन्दमयं सहः श्रियं वहति संततं हृदये ।
कः साधारणपुरुषः प्रभवत्वेनामनादर्त्तुम् ॥

2035

अपि निपुणतरमधीतं दुर्विनयारूढचेतसः पुंसः ।
मणिरिव फणिफणवर्ती प्रभवति शोकाय लोकानाम् ॥

2036

अपि निर्मुक्तभोगेन स्वान्तःस्थविषयेक्षया ।
असद्भावाय जायेत जिह्मगेन सहासिका ॥

2037

अपि पञ्चशतं दण्ड्यान् दण्डयेत् पृथिवीपतिः ।
अभावे पञ्च कायस्थान् एकं वा स्वर्णकारकम् ॥

2038

अपि पञ्चशतं शूरा मृद्नन्ति महतीं चमूम् ।
अथवा पञ्च षट् सप्त विजयन्तेऽनिवर्तिनः ॥

2039

अपि पुत्रैः कलत्रैर्वा प्राणान् रक्षेत पण्डितः ।
विद्यमानैर्यतस्तैः स्यात् सर्वं भूयोऽपि देहिनाम् ॥

2040

अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् ।
अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥

2041

अपि प्रगल्भललनाकटाक्षचपलाः श्रियः ।
सन्मन्त्रिप्रणिधानेन चिरं तिष्ठन्ति भूभुजाम् ॥

2042

अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।
सुधातः स्वादीयः सलिलमिदमातृप्ति पिबतां जनानामानन्दः परिहसति निर्वाणपदवीम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc