भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2003-2022

2003

अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥

2004

अपार्थेतरयुक्तानां व्याससंग्रहशालिनाम् ।
अपि गोपालगीतानां निवेशो निगमादिषु ॥

2005

अपास्तपाथेयसुधोपयोगैस् त्वच्चुम्बिनैव स्वमनोरथेन ।
क्षुधं च निर्वापयता तृषं च स्वादीयसाध्वा गमितः सुखं तैः ॥

2006

अपास्तपाथोरुहि शायितं करे करोति लीलाकमलं किमाननम् ।
तनोषि हारं कियदस्रुणः स्रवैर् अदोषनिर्वासितभूषणे हृदि ॥

2007

अपास्तस्ताराभिर्विधन इव कामी युवतिभिर् मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः ।
अयं प्राचीकर्णाभरणरचनाशोककुसुम- च्छटालक्ष्मीचौरः कलयति रविः पूर्वमचलम् ॥

2008

अपास्य लक्ष्मीहरणोत्थवैरिताम् अचिन्तयित्वा च तदद्रिमन्थनम् ।
ददौ निवासं हरये महोदधिर् विमत्सरा धीरधियां हि वृत्तयः ॥

2009

अपि कल्पानिलस्यैव तरङ्गस्य महोदधेः ।
शक्यते प्रसरो रोद्धुं नानुरक्तस्य चेतसः ॥

2010

अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
तथापि न पराभूतिं जनादाप्नोति मानवः ॥

2011

अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
यदाप्नोति फलं लोकात् तस्यांशमपि नो गुणी ॥

2012

अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः ।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥

2013

अपि कालस्य यः कालः सोऽपि कालमपेक्षते ।
कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ॥

2014

अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः ।
न चेच्छन्त्ययशोमिश्रम् अप्येवानन्त्यमायुषः ॥

2015

अपि कुञ्जरकर्णाग्राद् अपि पिप्पलपल्लवात् ।
अपि विद्युद्विलसिताद् विलोलं ललनामनः ॥

2016

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥

2017

अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥

2018

अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।
नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ॥

2019

अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते ।
इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ॥

2020

अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥

2021

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥

2022

अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोर् अभिनवशतपत्रश्रीमदास्यं प्रियायाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc