भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1983-2002

1983

अपाङ्गस्तव तन्वङ्गि विचित्रोऽयं भुजङ्गमः ।
दृष्टमात्रः सुमनसाम् अपि मूर्छाविधायकः ॥

1984

अपाङ्गात् पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् ।
खुरान्तात् ककुदं यावद् ऊर्ध्वमानेन बुद्धिमान् ॥

1985

अपात्रं पात्रता याति यत्र पात्रं न विद्यते ।
अस्मिन् देशे द्रुमो नास्ति एरण्डोऽपि द्रुमायते ॥

1986

अपात्रवर्षणं जातु न कुर्यात् सद्विगर्हितम् ।
अपात्रवर्षणात् किं स्याद् अन्यत् कोशक्षयादृते ॥

1987

अपात्रे पात्रताबुद्धिः पात्रे बुद्धिरपात्रता ।
ऋणानुबन्धरूपेण दातुरुत्पद्यते मतिः ॥

1988

अपात्रे रमते नारी गिरौ वर्षति वासवः ।
खलमाश्रयते लक्ष्मीः प्राज्ञः प्रायेण निर्धनः ॥

1989

अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥

1990

अपानेन पुनः कश्चित् प्रेरितः कालरूपिणा ।
निःश्वासोच्छ्वासकृद्वाति जपन् हंसेत्यहर्निशम् ॥

1991

अपापघनसंवृतेरविशदस्मितात्युन्नमत् समस्तनरसादरग्रहणतः कृतार्थप्रिया ।
रतिर्मनसि जायते यदि कदापि शौर्याश्रया तदैव सकलं जनुः सफलमेवमाहात्मभूः ॥

1992

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान् ।
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥

1993

अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपदं दधत्या शालीनामवनतिमुदारे सति फले ।
मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ॥

1994

अपायकलिता मनुर्जगति सापदः सम्पदो विनश्वरमिदं सुखं विषयजं श्रियश्चञ्चलाः ।
भवन्ति जरसारसास्तरललोचना योषितस् तदप्ययमहो जनस्तपसि नो परे रज्यति ॥

1995

अपायसंदर्शनजां विपत्तिम् उपायसंदर्शनजां च सिद्धिम् ।
मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥

1996

अपायि मुनिना पुरा पुनरमायि मर्यादया अतारि कपिना पुरा पुनरदाहि लङ्कारिणा ।
अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव यशोऽम्बुधिः क्वाम्बुधिः ॥

1997

अपारः पाथोधिः पुलिनपदवी योजनशतं निरालम्बो मार्गो वियति किल शून्या दश दिशः ।
इतीवायं कीरः कतिपयपदान्येव गगने मुहुर्भ्राम्यन् भ्राम्यन् पतति गुणवृक्षे पुनरपि ॥

1998

अपारपुलिनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे ।
महत्यमरभूधरे गहनकन्दरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्तयः ॥

1999

अपारसंसारसमुद्रमध्ये संमज्जतो मे शरणं किमस्ति ।
गुरो दयालो कृपया वदैतद् विश्वेशपादाम्बुजदीर्घनौका ॥

2000

अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथा वै रोचते विश्वं तथेदं परिवर्तते ॥

2001

अपारे पाथोधौ किमिति सतिमिग्राहगहने निलीय श्रीनाथः स्वपिति भुजगे शङ्कित इव ।
किमेतावद्भिर्वा भवतु किल सर्वातिशयितः श्रिया संश्लिष्टाङ्को व्यपगतभयं को निवसतु ॥

2002

अपारैर्व्यापारैरहरिह नयन्तोऽशनदशा- स्वथ स्नाताः संध्यां विदधति न जातु स्वसमये ।
त्यजन्तः स्वां वृत्तिं द्विजकुलभवा ग्रामगणकी- भवन्तो हन्तामी कथमपि च जीवन्ति बहवः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc