महासुभाषितसंग्रह · श्लोक 1963-1982
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैर् इति वदति दिवानिशं बाला ॥
अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते ।
अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ॥
अपस्तरन्ति पाषाणा ह्यनुघ्नन्ति हि राक्षसान् ।
कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥
अपहत्य तमस्तीव्रं यथा भात्युदरे रविः ।
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥
अपहरति मनो मे कोऽप्ययं कृष्णचौरः प्रणतदुरितचौरः पूतनाप्राणचौरः ।
वलयवसनचौरो बालगोपीजनानां नयनहृदयचौरः पश्यतां सज्जनानाम् ॥
अपहरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुलज्जामित्यहं किं न वेद्मि ।
तदपि वद वदान्यं तं सदा प्रत्यहं मां जठरपिठरवर्ती वह्निरर्थीकरोति ॥
अपहरसि सदा मनांसि पुंसाम् अतिमहता गुणसंपरिग्रहेण ।
न च भवसि तथाप्यनेकचित्तो हृतमथवा विवृणोति कः परस्वम् ॥
अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया ।
तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः ॥
अपहाय शनैः पटीरवाटीर् इह लाटीजनमानलुण्ठनाय ।
समुदेति मनोजराजधाटी- परिपाटीपटुरेष गन्धवाहः ॥
अपहृत्य परस्यार्थं तेन धर्मं करोति यः ।
स दाता नरकं याति यस्यार्थस्तस्य तत्फलम् ॥
अपह्नुवानस्य जनाय यन्निजाम् अधीरतामस्य कृतं मनोभुवा ।
अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥
अपां निधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति ।
ताभ्यां तयोः किं परिपूर्णता स्याद् भक्त्या हि तुष्यन्ति महानुभावाः ॥
अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः ।
भवत्यवश्यं तद् विद्वान् नाश्रयेदशुभात्मकम् ॥
अपां मूले लीनं क्षणपरिचितं चन्दनरसे मुणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति परं शैत्यमधुना ॥
अपां विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् ।
कठोरपीनोच्चकुचद्वयीतट- त्रुटत्तरः सारवसारवोर्मिजः ॥
अपाकुरु कपोलतः सखि भुजङ्गवल्लीरसं परित्यज कुचस्थलात् त्रुटितबन्धनं कञ्चुकम् ।
पिधेहि दशनच्छदे दशनजक्षतं लाक्षया वदेत्थमबलागणे गुरुजने कथं यास्यसि ॥
अपाकृत्याशेषाण्यपि च घनजालानि परितस् तमोधूमस्तोमोद्भवमलिनिमानं च तदनु ।
शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधासंदोहार्द्रैर्भुवनभवनं पाण्डुरयति ॥
अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥
अपाङ्गपातैरपदेशपूर्वैर् एणीदृशामेकशिलानगर्यात् ।
वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः ॥
अपाङ्गसंसर्गि तरङ्गितं दृशोर् भ्रुवोररालान्तविलासि वेल्लितम् ।
विसारि रोमाञ्चनकञ्चुकं तनोस् तनोति योऽसौ सुभगे तवागतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0