भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1943-1962

1943

अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।
कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ॥

1944

अपर्णेयं भूभृद्वनमटति वल्काम्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽयं निवसति ।
इति भ्रान्त्यान्योऽन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्दम्पत्योस्ते शिव शिव भवन्ति प्रणतयः ॥

1945

अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः ।
यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलम् ॥

1946

अपर्यन्तस्य कालस्य कियानंशः शरच्छतम् ।
तन्मात्रपरमायुर्यः स कथं स्वप्तुमर्हति ॥

1947

अपर्याप्तभुजायामः सखेदोऽस्याः सखीजनः ।
श्रोण्यां कथंचित् कुरुते रशनादामबन्धनम् ॥

1948

अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥

1949

अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव ॥

1950

अपवादो भवेद् येन येन विप्रत्ययो भवेत् ।
नरके गम्यते येन तद् बुधः कथमाचरेत् ॥

1951

अपशङ्कमङ्कपरिवर्तनोचिताश् चलिताः पुरः पतिमुपैतुमात्मजाः ।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ॥

1952

अपशास्त्रधनो राजा संचयं नाधिगच्छति ।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥

1953

अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥

1954

अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥

1955

अपश्चात्तापकृत् सम्यग् अनुबन्धिफलप्रदः ।
अदीर्घकालोऽभीष्टश्च प्रशस्तो मन्त्र उच्यते ॥

1956

अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ॥

1957

अपश्यद्भिर्महास्वादान् भावान् स्वाद्वविवेकिभिः ।
किं ज्ञेयमशनादन्यत् क्ष्मापैरन्धैरिवोक्षभिः ॥

1958

अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥

1959

अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा ।
प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः ॥

1960

अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूधरा नमत ।
वामनहरिलघुतुन्दे जगतां कलहः स वः पायात् ॥

1961

अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे ।
इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥

1962

अपसर सखे दूरादस्मात् कटाक्षविषानलात् प्रकृतिविषमाद् योषित्सर्पाद् विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश् चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc