भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1923-1942

1923

अपयायिनि स्वतोऽर्थे कथमिव सौहार्दधीः कदर्याणाम् ।
यस्यापयानसमये प्राणत्यागोऽपि हा सुकरः ॥

1924

अपरजलधेर्लक्ष्मीं यस्मिन् पुरीं पुरभित्प्रभे मदगजघटाकारैर्नावां शतैरवमृद्नति ।
जलदपटलानीकाकीर्णं नवोत्पलमेचकं जलनिधिरिव व्योम व्योम्नः समोऽभवदम्बुधिः ॥

1925

अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः ।
फलकुसुमैरुपकुर्वन्न् अररे करीर कथं धीरः ॥

1926

अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः ।
सुकरस्तरुवत् सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥

1927

अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥

1928

अपराद्धांस्तु सुस्निग्धान् स्नोहोक्त्या मानदानतः ।
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान् ॥

1929

अपराधं न शृणुमो न चासत्यं त्वयोदितम् ।
गोप्येति गदितः कृष्णस् तूष्णीं तिष्ठन् पुनातु वः ॥

1930

अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् ।
कार्यं सुघटितं यत्नाद् दैवयोगाद् विनश्यति ॥

1931

अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥

1932

अपराधानुरूपं च दण्डं पापेषु पातयेत् ।
उद्वेजयेद्धनैरृद्धान् दरिद्रान् वधबन्धनैः ॥

1933

अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि ।
वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥

1934

अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् ।
सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥

1935

अपराधीनाशोकः सहते चरणाहतिं सरोजदृशाम् ।
विलसितबकुलो वनिता- मुखवासी मद्यपात इव ॥

1936

अपराधेऽपि निःशङ्को नियोगी चिरसेवकः ।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥

1937

अपराधो न मेऽस्तीति नैतद् विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥

1938

अपराधो मया कान्ते कृतो यदि त्वया मतः ।
निपात्य गिरिशृङ्गोच्चौ कुचौ किं न निपीड्यते ॥

1939

अपराह्णशीतलतरेण शनैर् अनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ॥
अपरित्यक्तमात्मानम् इच्छता पण्ययोषिताम् ।
नित्यौपयोगिकं द्रव्यम् आत्मसारं प्रदर्शयेत् ॥

1940

अपरीक्षितपरवञ्चनम् अञ्चति लोभादपेक्षितप्रेक्षी ।
व्याधूतपक्षमवशो विहन्यते पक्षिवत् क्षितिपः ॥

1941

अपरीक्षितलक्षणप्रमाणैर् अपरामृष्टपदार्थसार्थतत्त्वैः ।
अवशीकृतजैत्रयुक्तिजालैर् अलमेतैरनधीततर्कविद्यैः ॥

1942

अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc