महासुभाषितसंग्रह · श्लोक 1903-1922
अपथेनैव यो योगाद् अधः सारायते स्वयम् ।
नीचोपसर्पणवशात् स पतेद् वंशवानपि ॥
अपथ्यभोगेषु यथातुराणां स्पृहा यथार्थेष्वतिदुर्गतानाम् ।
परोपतापेषु यथा खलानां स्त्रीणां तथा चौर्यरतोत्सवेषु ॥
अपथ्यमायतौ लोभाद् आमनन्त्यनुजीविनः ।
प्रियं श्र्णोति यस्तेभ्यस् तमृच्छन्ति न संपदः ॥
अपथ्यस्य च भुक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य समूलोद्धरणं सुखम् ॥
अपदान्तरं च परितः क्षितिक्षिताम् अपतन् द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपम- क्षितिरेणुकेतुवसनाः पताकिनः ॥
अपदो दूरगामो च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।
जीवितं यदवक्षिप्तं यथैव मरणं तथा ॥
अपनय महामोहं राजन्ननेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् ।
यदरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥
अपनिद्रमधूकपाण्डुरा सुदृशोऽदृश्यत गण्डमण्डली ।
गमिताश्रुजलप्लवैरिव क्रशिमाकीर्णतयापि निम्नताम् ॥
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।
मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥
अपनीतपरिमलान्तर- कथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद् भ्रमर धन्योऽसि ॥
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत् प्राज्ञः कार्यध्वंसो हि मूर्खता ॥
अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौःस्थ्यम् ।
शीलक्षतये यासां तासामतिरागतोऽन्यनररक्तिः ॥
अपमानात् तपोवृद्धिः संमानाच्च तपःक्षयः ।
अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ॥
अपमानात् तु संभूतं मानेन प्रशमं नयेत् ।
सामपूर्व उपायो वा प्रणामो वाभिमानजे ॥
अपमानितोऽपि कुलजो न वदति पुरुषं स्वभावदाक्षिण्यात् ।
नहि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम् ॥
अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम् ।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ।
कलयन्नपि सव्यथोऽवतस्थे- ऽशकुनेन स्खलितः किलेतरोऽपि ॥
अपयान्तीनामधुना संकेतनिकेतनान्मृगाक्षीणाम् ।
वासस एव न केवलम् अभवन्मनसोऽपि परिवर्तः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0