भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1823-1842

1823

अन्येऽपि सन्ति गुणिनः कति नो जगत्यां हार त्वमेव गुणिनामुपरिस्थितोऽसि ।
एणीदृशामुरसि नित्यमवस्थितोऽसि सद्वृत्तता च शुचिता च न खण्डिता ते ॥

1824

अन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः ।
कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरंदरीं यदभिवाञ्छति वारिधाराम् ॥

1825

अन्येयं रूपसंपत्तिर् अन्या वैदग्ध्यधोरणी ।
नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥

1826

अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥

1827

कर्मणा मनसा वाचा परपीडां करोति यः ।
तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥

1828

अन्येषामपि नश्यन्ति सुहृदश्च धनानि च ।
पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ॥

1829

अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।
पुंभिः स्त्रीषु कृता यद्वत् सुमनःस्विव षट्पदैः ॥

1830

अन्ये हि दुःखमृतवः प्रथयन्त्यहोभिः सूर्यांशुलुप्ततिमिरैरभिसारिकाणाम् ।
हेमन्त एष हिमरुद्धसहस्रधामा कामं करोति दिवसेष्वपि शर्म तासाम् ॥

1831

अन्यैः साकं विरोधेन वयं पञ्चोत्तरं शतम् ।
परस्परविरोधेन वयं पञ्च च ते शतम् ॥

1832

अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान्न लज्जामवहञ् शौचचिन्तां न वा दधुः ॥

1833

अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥

1834

अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति ।
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥

1835

अन्योन्यं दशनच्छदेषु दशतोरन्योन्यमालिङ्गतोर् अन्योन्यं नखरैः खरैर्विलिखतोरन्योन्यमाचुम्बतोः ।
औत्सुक्येन नवं नवं निधुवनप्रागल्भ्यमभ्यस्यतोः श्रान्ते पञ्चशरेऽपि न प्रणयिनोः प्राप्तोऽपकर्षं रसः ॥

1836

अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ।
न चैकमत्ये श्रेयोस्ति मन्त्रः सोऽधम उच्यते ॥

1837

अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् ।
नव तिष्ठति तद्वरं पुष्करस्थमिवोदकम् ॥

1838

अन्योन्यगूढचेष्टित- सद्भावस्नेहपाशबद्धस्य ।
विच्छेदकरो मृत्युर् धीराणां वा परिच्छेदः ॥

1839

अन्योन्यगोप्यं विदुषां तु लक्षं यदस्य तुल्याः प्रभवो भवन्ति ।
परस्परालिङ्गनतत्पराणां न कान्त सौख्यं युवतीजनानाम् ॥

1840

अन्योन्यग्रथितारुणाङ्गुलिनमत्पाणिद्वयस्योपरि न्यस्योच्छवासविकम्पिताधरदलं निर्वेदशून्यं मुखम् ।
आमीलन्नयनान्तवान्तसलिलं श्लाध्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥

1841

अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम् ।
केषांचिदेव मन्ये समागमो भवति पुण्यवताम् ॥

1842

अन्योन्यप्रकटानुरागरभसादुद्भूतरोमाञ्चयोर् उत्कण्ठापरिखेददुःसहतया क्षामीभवद्गात्रयोः ।
नक्तं दैववशात् क्षणं गुरुजनात्स्वायत्ततां प्राप्तयोर् यातो दुर्लभसंगमोत्सवविधिर्यूनोर्जनाख्येयताम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc