भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1743-1762

1743

अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर् निर्दयत्वमितरैरबलासु ॥

1744

अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥

1745

अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः ॥
मा कदाचन कपोलयोर्मलं संक्रमय्य समतां स नेष्यति ॥

1476

अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः ।
श्रीधरोऽपि हि बले श्रियमिच्छन् मानमातनुत वामनमेव ॥

1477

अन्यत्कृत्यं मनुजश् चिन्तयति दिवानिशं विशुद्धधिया ।
वेधा विदधात्यन्यत् स्वामीव न शक्यते धर्तुम् ॥

1748

अन्यत्र देशे घटिता जगन्ति ग्रसिष्यते विश्वसृजेति मत्वा ।
संकोचयित्वा किमु पादमूल- द्वयान्तराले निहितास्ति योनिः ॥

1749

अन्यत्र भीष्माद् गाङ्गेयाद् अन्यत्र च हनूमतः ।
हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥

1750

अन्यत्र यापितनिशं परिलोहिताङ्गम् अन्याङ्गनागतमिवागतमुष्णरश्मिम् ।
प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयम् उत्फुल्लहल्लकसुलोहितलोचनाभूत् ॥

1751

अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥

1752

अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद् यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः ।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥

1753

अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥

1754

अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥

1755

अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ।
मनसो भिद्यते वृत्तिर् अभिन्नेष्वपि वस्तुषु ॥

1756

अन्यथा वर्त्तमानानाम् अर्थी भूतोऽयमन्यथा ।
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥

1757

अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा ।
अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ॥

1758

अन्यथा शास्त्रगर्भिण्या धिया धीरोऽर्थमीहते ।
स्वामीव प्राक्तनं कर्म विदधाति तदन्यथा ॥

1759

अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः ।
दैवेनाहितसद्भावाः कर्मणां गतयोऽन्यथा ॥

1760

अन्यथैवसती पुत्रं चिन्तयेदन्यथा पतिम् ।
यथा यथा स्वभावस्य महाभाग उदाहृतम् ॥

1761

अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च ।
अन्यथैव प्रभुस्तानि करोति विकरोति च ॥

1762

अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc