भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1723-1742

1723

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥

1724

अन्नादष्टगुणं पिष्टं पिष्टादष्तगुणं पयः ।
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥

1725

अन्नादिवर्गं फलपुष्पमांस- मत्स्यादिभिः पूर्णमुखः सदैव ।
स्याद्दृष्टमात्रोऽभिमतार्थसिद्ध्यै मृष्टान्नभोज्याय मुदे च काकः ॥

1726

अन्नादिविष्ठानवगोमयानि न वा विधुन्वन् वदने सदैव ।
वामोपसव्योऽप्यवलोक्यमानो मनोरथं पूरयते ध्रुवश्च ॥

1727

अन्नादिविष्ठापिशितादिभिर्यः पूर्णाननोऽभीष्टफलप्रदोऽसौ ।
मन्त्रादिसिद्ध्यै वणिगादिलाभे शस्तो विवाहादिविधौ च काकः ॥

1728

अन्नादे भ्रूणहा मार्ष्टि अन्नेन अभिशंसति ।
स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकरे ॥

1729

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥

1730

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥

1731

अन्नाद्रक्तं च शुक्लं चाप्य् अतो जीवः प्रतिष्ठितः ।
इन्द्रियाणि च बुद्धिश्च तृप्यन्त्यन्नेन नित्यशः ॥

1732

अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या ।
वृष्टिस्तपसेति वदन्न् अमृत्यवे तत्तपश्चरतु ॥

1733

अन्नाशने स्यात् परमाणुमात्रः प्रशक्यते शोधयितुं तपोभिः ।
मांसाशने पर्वतराजमात्रो नो शक्यते शोधयितुं महत्त्वात् ॥

1734

अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ।
अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ॥

1735

अन्ने पाने च ताम्बूले फले पुष्पे विभूषणे ।
वस्त्रे विलेपने धूपे शय्यायामासनेषु च ॥

1736

अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुङ्क्ष्व रे धन्यं धाम विभाति ते न हि तथा पुण्यं जघन्यं कुरु ।
एतस्मिन्करिशाव मा व्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ॥

1737

अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
अन्यत्र मुञ्चन्ति मदप्रसेकम् अन्यं शरीरेण च कामयन्ते ॥

1738

अन्यः कः क्षारवार्धे त्वमिव नियमितो वानरैर्वा नरैर्वा विप्रेणैकेन कोऽन्यः करकुहरपुटीपात्रमात्रे निपीतः ।
जल्पन्नित्थं पृथूर्मिघ्वनिभिरवतरत्फेनकूटाट्टहासैः स्पर्धां धत्ते पयोधेरधिकमधिपुरं निर्मितो यत्तटाकः ॥

1739

अन्यः करोति व्यापारं लिप्तो भवति लेखकः ।
भगलिङ्गप्रसङ्गेन छिन्ना भवति नासिका ॥

1740

अन्यः कोऽपि स कुम्भसंभवमुनेरास्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः ।
वन्द्यं तज्जठरं स मीनमकरग्राहावलिस्तोयधिः पश्चात्पार्श्वमपूरितान्तरवियद्यत्र स्वनन् भ्राम्यति ॥

1741

अन्य इत्यनुपजातयन्त्रणं द्रागुदञ्चितवती विलोचनम् ।
मामवेत्य चकिता वृतानना दन्तदष्टरसना मनागभूत् ॥

1742

अन्यकर्मविमूढो य आत्मकर्मविशारदः ।
यथा पश्य न जानाति स्तनपानेतरच्छिशुः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc