महासुभाषितसंग्रह · श्लोक 1703-1722
अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।
आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥
अन्नं दद्यादतिथये श्रद्धया स्वर्गदं हि तत् ।
सकुटुम्बो दिशन्नन्नं सक्तुप्रस्थो दिवंगतः ॥
अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्यम् ।
भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण व्यामोह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥
अन्नं नास्त्युदकं नास्ति नास्ति ताम्बूलचर्वणम् ।
मन्दिरेषुमहोत्साहः शुष्कचर्मस्य (?) ताडनम् ॥
अन्नं मुक्तासुवर्णं द्रवगुणरहिताः स्वर्णरूपाश्च सूपाः सामोदाः शाकभेदाः फलगुडमिलिताः पायसम् ... ।
यावद्भोज्यं तदाज्यं दधि कथिनतरं नैकरूपास्त्वपूपाः भुज्यन्ते भूसुरौधैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥
अन्नं विधात्रा विहितं मर्त्यानां जीवधारणम् ।
तदनादृत्य मतिमान् प्रार्थयेन्न तु किंचन ॥
अन्नं संप्रोक्ष्य गायत्र्या सत्यं त्वर्तेति मन्त्रतः ।
ऋतं त्वेति च सायं तु परिषिञ्चेत् प्रदक्षिणम् ॥
अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्वहम् ।
धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥
अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन ।
सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥
अन्नदाता भयत्राता कन्यादाता तथैव च ।
जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥
अन्नदानं महादानं विद्यादानं महत्तरम् ।
अन्नेन क्षणिका तृप्तिर् यावज्जीवं तु विद्यया ॥
अन्नदानात् परं दानं न भूतं न भविष्यति ।
अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ॥
अन्नदाहे हरेन्मांसम् अम्बुदाहे च शोणितम् ।
कामदाहे हरेन्नेत्रम् अनिद्रा रोगकारिणी ॥
अन्नदो जलदश्चैव आतुरस्य चिकित्सकः ।
त्रयस्ते स्वर्गमायान्ति विना यज्ञेन भारत ॥
अन्नपानं विषाद्रक्षेद् विशेषेण महीपतेः ।
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥
अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः ।
गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।
तस्मिन्नेवोदरे गर्भः किं नाम न विजीर्यते ॥
अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः ।
आहारात् सर्वभूतानि संभवन्ति महीतले ॥
अन्नमूलं बलं पुंसां बलमूलं हि जीवनम् ।
तस्माद् यत्नेन संरक्षेद् बलं च कुशलो भिषक् ॥
अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च ।
ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0