भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1683-1702

1683

अन्धकं कुब्जकं चैव कुष्ठाङ्गं व्याधिपीडितम् ।
आपद्गतं च भर्तारं न त्यजेत् सा महासती ॥

1684

अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका ।
त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥

1685

अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
अनयोऽपि नयं याति यावच्छ्रीर्भजते नरम् ॥

1686

अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
सानुकूले जगन्नाथे विपरीतः सुयुग्भवेत् ॥

1687

अन्धकारगरलं यतो जगन्- मोहकारि भृशमत्ति नित्यशः ।
उज्ज्वलं जठरमोषधीपतेर् अञ्जनाभमभवत् ततः प्रिये ॥

1688

अन्धकाराङ्कुरो जज्ञे ववृधे चाविलम्बितम् ।
भीमेन रममाणाया हिडिम्बाया इवात्मजः ॥

1689

अन्धत्वमन्धसमये बधिरत्वं बह्दिरकाल आलम्ब्य ।
श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः ॥

1690

अन्धद्वये महानन्धो विषयान्धीकृतेक्षणः ।
चक्षुषान्धो न जानाति विषयान्धो न केनचित् ॥

1691

अन्धस्य दर्पणेनेव हितेनेव हतश्रुतेः ।
दुःखाभितप्तः शोकेन नेक्षते न शृणोति च ॥

1692

अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः ।
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥

1693

अन्धस्य मे हृतविवेकमहाधनस्य चौरैर्विभो बलिभिरिन्द्रियनामधेयैः ।
मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बम् ॥

1694

अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् ।
पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥

1695

अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥

1696

अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता ।
बधिरा गायनैर्हीना सभा भवति भूभृताम् ॥

1697

अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि ।
कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसंदधाति ॥
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।
अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥

1698

अन्दोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
राजत्वप्रतिहतैर् जनानुरागैर्भरति भूपः ॥

1699

अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
यो भाषतेऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥

1700

अन्धो वा वधिरो वाथ कुष्टी वाप्यन्त्यजोऽपि वा ।
परिगृह्णातु तां कन्यां सलक्षां स्याद् विदेशगः ॥

1701

अन्धो हि राजा भवति यस्तु शास्त्रविवर्जितः ।
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥

1702

अन्घ्रीनीरन्घ्रपीनस्तनतटलुठनायासमन्दप्रचाराश् चारूनुल्लासयन्तो द्रविडनरवधूहारिधम्मिल्लभारान् ।
जिघ्रन्तः सिंहलीनां मुखकमलमलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc