भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1663-1682

1663

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिरभारनिरोधाद् उच्छ्वसन्निव रराज दिगन्तः ॥

1664

अन्तेनार्जुनतां दधाति नयनं मध्ये तथा कृष्णतां द्वैरूप्यं दधतामुना विरचितः कर्णेन ते विग्रहः ।
तत्कर्णार्जुनकृष्णविग्रहवती साक्षात् कुरुक्षेत्रतां यातासि त्वदवाप्तिरेव तरुणि श्रेयः परं गण्यते ॥

1665

अन्तेषु रेमिरे धीरा नते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखामाहुर् दुःखमन्तरमन्तयोः ॥

1666

अन्ते सन्तोषदं विष्णुं स्मरेत् हन्तारमापदाम् ।
शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥

1667

अन्तो नाश्चर्यजातस्य जततो दृश्यते क्वचित् ।
क्षुद्राहंभावसीमाया यावतीं मुक्तिमाप्नुमः ।
आश्चर्याणि हि तावन्ति प्रकाशानि भवन्ति नः ॥

1668

अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् ।
तस्मात् संतोषमेवेह धनं पश्यन्ति पण्डिताः ॥

1669

अन्त्यजोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
अपि ब्रह्मकुले जातो निर्धनः परिभूयते ॥

1670

अन्त्यजोऽपि यदा साक्षी विवादे संप्रजायते ।
न तत्र युज्यते दिव्यं किं पुनर्वनदेवताः ॥

1671

अन्त्यावस्थागतोऽपि महान् स्वगुणाञ्जहाति न शुद्धतया ।
न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि ॥

1672

अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण- प्रायप्रेङ्खितभूरिभूषणरवैराधोषयन्त्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद् व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥

1673

अन्त्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटा- सृक्वस्थामिषगृध्नुगृध्रगरुदास्फालोच्चलन्मूर्धजा ।
व्यादायाननमट्टहासविकटं दूरेण तारापथात् त्रस्यत्सिद्धपुरंध्रिवृन्दरभसोन्मुक्तादुपक्रामति ॥

1674

अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्य् अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥

1675

अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।
भग्नानुद्वलयन्निजान् परभटान् संतर्जयन् निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥

1676

अन्दूमुद्धूय बद्धां निजमपि सहसा सूतमुन्मथ्य सद्यो निर्यातस्त्रस्तवाजिव्रजकृतनिनदाकर्णनक्रुद्धचेताः ।
संरम्भारम्भभग्नद्रुमविटपशतैः प्रोथयन्नापनस्थान् आयाति व्यालनागस्त्वरितमिह जनाः सावधाना भवन्तु ॥

1677

अन्धं तमश्चेदयि बाधते त्वां सरोजनेत्रं जगदेकसूत्रम् ।
सुधाचरित्रम् परमं पवित्रं कुरुष्व मित्रं वसुदेवपुत्रम् ॥

1678

अन्धं दरिद्रितमपि प्रियया विहीनं वीक्ष्येश्वरे वदति या च वरं त्वमेकम् ।
नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ॥

1679

अन्धं पतिं प्राप्य विलासिनीनां कटाक्षबाणा विफला भवन्ति ।
तद्वत् कुजादित्यशनैश्चराणां न वारदोषाः प्रभवन्ति रात्रौ ॥

1680

अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः ।
मृतः स एवास्ति यशो न यस्य धर्मे न धीर्यस्य स एव शोच्यः ॥

1681

अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ।
कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् ॥

1682

सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितम् ।
दया तस्मिन् न कर्त्तव्या शरणागत इत्युत ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc