भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1643-1662

1643

अन्तर्मलीमसे वक्रे चले कर्णान्तसर्पिणि तस्या नेत्रयुगे दृष्टे दुर्जने च कुतः सुखम् ॥

1644

अन्तर्माररसार्द्रा गुरुगुणबद्धानुकूलतां धत्ते ।
निष्ठुरबाह्याकारा दृतिरिव पतिसंनिधौ नव्या ॥

1645

अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशनः स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः कंसरिपोर्विलोपयतु वोऽश्रेयांसि वंशीरवः ॥

1646

अन्तर्ये सततं लुथन्त्यगणितास्तानेव पाथोधरैर् आत्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।
व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥

1647

अन्तर्लीनभुजंगमं गृहमिवान्तःस्थोग्रसिंहं वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः ।
कालेनार्यजनापवादपिशुनैः क्षुद्रैरनार्यैः श्रितं दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥

1648

अन्तर्लीनस्य दुःखाग्नेर् अद्योद्दामं ज्वलिष्यतः ।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥

1649

अन्तर्वसति मार्जारी शुनी वा राजवेश्मनि ।
बहिर्बद्धोऽपि मातङ्गस् ततः किं लघुतां गतः ॥

1650

अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।
सहकार मायिविटपिन् युक्तं लोकैर्बहिर्नीतः ॥

1651

अन्तर्बहिस्त्रिजगतीरसभावविद्वान् यो नर्तयत्यखिलदेहभृतां कुलानि ।
क्षेमं ददातु भगवान् परमादिदेवः शृङ्गारनाटकमहाकविरात्मजन्मा ॥

1652

अन्तर्वाणिं मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते ।
सर्वानन्दिन्यङ्गके कामिनीनाम् ईर्म मार्गत्येष वै बम्भरालिः ॥

1653

अन्तर्विशति मार्जारी शुनी वा राजवेश्मनि ।
बहिःस्थस्य गजेन्द्रस्य किमर्थः परिहीयते ॥

1654

अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥

1655

अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयोनिश्चकार ।
धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥

1656

अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनेन दुःखानि नूनमतिमात्रदुरुद्वहानि ॥

1657

अन्तश्छिद्राणि भूयंसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ॥

1658

अन्तश्छिद्रैरियमधिगता दुस्त्यजा दुष्टवंशैर् अत्यासक्तिर्निजकुलशुभोदर्कलाभाय न स्यात् ।
किं तु ग्रीष्मश्वसनजनितान्योन्यसंघर्षवह्नि- ज्वालामालाजटिलवपुषामात्मनां नाशनाय ॥

1659

अन्तस्तव स ज्वलनो भीमा मकराश्च सर्वतो विकटाः ।
अथ बत विषमयमङ्गम् तदिति निषेव्यः कथं भवेर्जलधे ॥

1660

अन्तस्तारं तरलिततलाः स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण ।
चित्तातङ्कं निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः कुवलयदृशो बाष्पवारां प्रवाहाः ॥

1661

अन्तस्तिमिरनाशाय शाब्दबोधो निरर्थकः ।
न नश्यति तमो नाम कृतया दीपवार्तया ॥

1662

अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।
भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc