भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1623-1642

1623

अन्तर्गतो यदि हरिस्तपसा ततः किं नान्तर्गतो यदि हरिस्तपसा ततः किम् ।
अन्तर्बहिर्यदि हरिस्तपसा ततः किं नान्तर्बहिर्यदि हरिस्तपसा ततः किम् ॥

1624

अन्तर्गाढं चिह्नहीनं विशालं मध्ये स्थूलं स्थूलधारातितीक्ष्णम् ।
रक्षोवक्षश्छेदनार्थं महान्तं कृत्वा खङ्गं देवराजोतिहृष्टः ॥

1625

अन्तर्गूढानर्थान् अव्यञ्जयतः प्रसादरहितस्य ।
संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥

1626

अन्तर्गृहं नयति वर्धितरोमहर्षं स्पर्शेन सीत्करणगर्भमुखीः करोति ।
किंचाधरव्रणवतीः कुरुते पुरन्घ्रीः किं वल्लभः किमुत हैमन एष वातः ॥

1627

अन्तर्गृहे कृष्णमवेक्ष्य चौरं बद्ध्वा कवाटं जननीं गतैका ।
उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ॥

1628

अन्तर्जलावारितमूर्ति यातो बालापरिष्वङ्गसुखाय पत्युः ।
विघ्नाय वैमल्यमपां बभूव व्यर्थः प्रसादो हि जलाशयानाम् ॥

1629

अन्तर्दधानापि कठोरभावं स्वच्छद्युतिः सा निजमाधुरीभिः ।
भुक्ता रसं स्वादुविदां तनोति गुणोपगूढा सितशर्करेव ॥

1630

अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥

1631

अन्तर्धृतगुणैरेव परेषां स्थीयते हृदि ।
अर्थं समर्थयन्त्येनं समग्रं कुसुमस्रजः ॥

1632

अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् ।
प्रत्यग्ज्योतिर्जय्ति यमिनः स्पष्टलालाटनेत्र- व्याजव्यक्तीकृतमिव जगद्वापि चन्द्रार्धमौलेः ॥

1633

अन्तर्निदह्यमानेन शक्तिहीनेन शत्रुषु ।
संततिः क्रियते येन निन्द्यं धिक्तस्य जीवितम् ॥

1634

अन्तर्निबद्धगुरुमन्युपरंपराभिर् इच्चोचितं किमपि वक्तुमशक्नुवत्याः ।
अव्य्क्तहूंकुतिचलत्कुचमण्डलायास् तस्याः स्मरामि मुहुरर्धविलोकितानि ॥

1635

अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निगद्य कथमद्य लघूकरोमि ।
जानन्ति किं न करजक्षतकुम्भिकुम्भा- दामुक्तमौक्तिकमयानि दिगन्तराणि ॥

1636

अन्तर्भावनिगूधेयं वाक्ते प्रकृतिपेशला ।
विकाराद्यनभिज्ञेया विषदिग्धेव वारुणी ॥

1637

अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥

1638

अन्तर्भूय प्रभोः प्राप्यो विशेषः सर्वथा बुधैः ।
को हि नाम न कुर्वीत केवलोदरपूरणम् ॥

1639

अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः ।
संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली- सीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥

1640

अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैर् आक्रुष्टास्तटिनीषु कोकमिथुनैर्यावन्निशीथं मिथः ।
शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ॥

1641

अन्तर्मलिनदेहेन बहिराह्लादकारिणा ।
महाकालफलेनेव कः खलेन न वञ्चितः ॥

1642

अन्तर्मलिनसंसर्गाच् छ्रुतवानपि दुष्यति ।
यच्चक्षुःसंनिकर्षेण कर्णोऽभूत् कुटिलाश्रयः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc