भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1541-1561

1541

अनेकमुखपापात्मा छद्मसंदर्शिताश्रमः ।
कर्बुरप्रकृतिः कश्चित् कापेयकलहोचितः ॥
अनेकयुद्धविजयी संधानंयस्य गच्छति ।
तत्प्रतापेन तस्याशु वशं गच्छन्ति विद्विषः ॥

1542

अनेकराज्यान्तरितम् अतिक्षिप्तं न युध्यते ।
अन्तर्गतामित्रशल्यम् अन्तःशल्यं हि न क्षमम् ॥

1544

अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती ।
अभ्रान्तेषु सदा सारसङ्गिषु स्यात् स्फुरद्गुणा ॥

1545

अनेकविद्वज्जनरत्नपूर्णं वे दोदकन्यायतरङ्गरम्यम् ।
अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥

1546

अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥

1547

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥

1548

अनेकसुषिरं कान्तं वादि स्त्रीमुखपङ्कजम् ।
पश्य कान्ते वनस्यान्ते नेत्रश्रुतिमनोरमम् ॥

1549

अनेकसुषिरं वाद्यं कान्तं च ऋषिसंज्ञितम् ।
चक्रिणा च सदाराध्यं यो जानाति स पण्डितः ॥

1550

अनेके फणिनः सन्ति भेकह्बक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥

1551

अनेकैर्नायकगुणैः सहितः सखि मे पतिः ।
स एव यदि जारः स्यात् सफलं जीवितं भवेत् ॥

1552

अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् ।
प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥

1553

अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायमङ्गात् कृतिनः प्ररूढः ॥

1554

अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् ।
यत्पाटितं तृणेनापि स्वमङ्गं परिदूयते ॥

1555

अनेन कुम्भद्वयसंनिवेश- संलक्ष्यमाणेन कुचद्वयेन उन्मज्जता यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि ॥

1556

अनेन तनुमद्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन संभावितः ।
अशोक यदि सद्य एव कुसुमैर्न संपत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणम् ॥

1557

अनेन तव पुत्रस्य प्रसुप्तस्य वनान्तरे ।
शिखामारुह्य हस्तेन खड्गेन निहतं शिरः ॥

1558

अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः ।
मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ॥

1559

अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥

1560

अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ।
हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥

1561

अनेन भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
कर्तारमेनो गच्छेच्च निन्द्यो यत्र हि निन्द्यते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc