भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1521-1540

1521

अनुसर सरस्तीरं वैरं किमत्र सहात्मना कतिपयपयःपाणम् मानिन् समाचर चातक ।
प्रलयपवनैरस्तं नीतः पुरातनवारिदो यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥

1522

अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
पतन्ति पितरस् तस्य स्वर्गस्था अपि तैर्गुणैः ॥

1523

अनूनवेगादयमद्वितीयश् च्छायातुरङ्गादिव लज्जमानः ।
खुरोद्धुतैर्वीर तुरङ्गमस्ते रजोभिरह्णनां पतिमावृणोति ॥
अन्र्जुत्वमसद्भावं कार्पण्यं चलचित्तता ।
पुंसां मित्रेषु ये दोषास् ते वेश्यासु गुणाः स्मृताः ॥

1524

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥

1525

अनृतं चाटुवादश्च धनयोगो महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥

1526

अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ।
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥

1527

अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।
अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥

1528

अनृतपटुता क्रौर्ये चित्तं सतामवमानिता मतिरविनये धर्मे शाठ्यं गुरुष्वपि वञ्चनम् ।
ललितमधुरा वाक्प्रत्यक्षे परोक्षविभाषिणी कलियुगमहाराजस्यैताः स्फुरन्ति विभूतयः ॥

1529

अन्र्तमनृतमेतद्यस्तुधासूतिरिन्दुर् नियतमयमनार्यो निर्गतः कालकूटात् ।
हृदयदहनदक्षा दारुणा चान्यथेयं वद सखि मधुरत्वे मोहशक्तिः कुतोऽस्य ॥

1530

अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ॥

1531

अनेकगतिचित्रितं विविधजातिभेदाकुलं समेत्य तनुमद्गणः प्रचुरचित्रचेष्टोद्यतः ।
पुरार्जितविचित्रकर्मफलभुग्विचित्रां तनुं प्रगृह्य नटवत् सदा भ्रमति जन्मरङ्गाङ्गणे ॥

1532

अनेकचित्तमन्त्रश्च द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थितचित्तत्वात् कर्ये तैः समुपेक्ष्यते ॥

1533

अनेकजन्मसंभूतं पापं पुंसां प्रणश्यति ।
स्नानमात्रेण गङ्गायां सद्यः पुण्यस्य भाजनम् ॥

1534

अनेकजीवघातोत्थं म्लेच्छोच्छिष्टं मलाविलम् ।
मलाक्तपात्रनिक्षिप्तं किं शौचं लिहतो मधु ॥

1535

अनेकदोषदुष्टस्य कायस्यैको महान् गुणः ।
यो यथा वर्तयत्येनं तं तथैवानुवर्तते ॥

1536

अनेकदोषदुष्टस्य मधुनोऽपास्तदोषताम् ।
यो ब्रूते तद्रसासक्तः सोऽसत्याम्बुधिरस्तधीः ॥

1537

अनेकधेति प्रगुणेन चेतसा विविच्य मिथ्यात्वमलं सदूषणम् ।
विमुच्य जैनेन्द्रमतं सुखावहं भजन्ति भव्या भवदुःखभीरवः ॥

1538

अनेकपर्यायगुणैरुपेतं विलोक्यते येन समस्ततत्त्वम् ।
तदिन्द्रियानिन्द्रियभेदभिन्नं ज्ञानं जिनेन्द्रैर्गदितं हिताय ॥

1539

अनेकभवसंचिता इह हि कर्मणा निर्मिताः प्रियाप्रियवियोगसंगमविपत्तिसंपत्तयः ।
भवन्ति सकलास्विमा गतिषु सर्वदा देहिनां जरामरणवीचिके जननसागरे मज्जताम् ॥

1540

अनेकमलसंभवे कृमिकुलैः सदा संकुले विचित्रबहुवेदने बुधविनिन्दिते दुःसहे ।
भ्रमन्नयमनारतं व्यसनसंकटे देहवान् पुरार्जितवशो भवे भवति भामिनीगर्भके ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc