महासुभाषितसंग्रह · श्लोक 1501-1520
अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥
अनुरागादभिसरतो लङ्घितजलधेः कलाधिनाथस्य ।
रजनीमुखचुम्बनतः शिथिलितमलकं कलङ्कमाकलये ॥
अनुरागो वृथा स्त्रीषु स्त्रीषु गर्वो वृथा तथा ।
पृइयोऽहम् सर्वदा ह्यस्या ममैषा सर्वदाप्रिया ॥
अनुरूपमिदं कूप छद्मच्छन्नस्य किं न ते ।
सन्मार्गविभ्रमान्मार्गपातोऽयं यन्निपातितः ॥
अनुरूपेण संसर्गं प्राप्य सर्वोऽपि मोदते ।
दिनं तेजोनिधिर्यद्वद् रत्रिं दोषाकरस् तथा ॥
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः ।
समयेन तेन चिरसुप्तमनो- भवबोधनं सममबोधिषत ॥
अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥
अनुवनमनुयान्तं बाष्पवारि त्यजन्तं मुदितकमलदामक्षाममालोक्य रामम् ।
दिनमपि रविरोचिस्तापमन्तः प्रपेदे रजनिरपि च ताराबाष्पबिन्दून् बभार ॥
अनुवनमनुशैलं तामनालोक्य सीतां प्रतिदिनमतिदीनं वीक्ष्य रामं विरामम् ।
गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत् क्षितिरपि न विदीर्णा सापि सर्वंसहैव ।
अनुवादयिता वाद्यं नृत्यसि यत्त्वयि सुरेश्वरः साक्षात् ।
पक्षश्च तेऽजवन्द्यस् तदसि कलापिन् परं धन्यः ॥
अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः ।
तं प्रमथ्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत् ॥
अनुशयवत्येवोक्ता प्रोष्यत्पतिका न भेदतो बहुभिः ।
परदेशादागच्छत्- पतिकापि यथा प्रमुदितैव ॥
अनुशासद्धि धर्मेण व्यवहारेण संस्थया ।
न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ॥
अनुशीलितकुञ्जवाटिकायां जघनालंकृतपीतशाटिकायाम् ।
मुरलीकलकूजिते रतायां मम चेतोऽस्तु कदम्बदेवतायाम् ॥
अनुशोचनमस्तविचारमना विगतस्य मृतस्य च यः कुरुते ।
स गते सलिले तनुते वरणं भुजगस्य गतस्य गतिं क्षिपति ॥
अनुष्ठानेन रहितां पाठमात्रेण केवलम् ।
रञ्जयत्येव या लोकं किं तया शुकविद्यया ॥
अनुष्ठितं तु यद् देवैर् ऋषिभिर्यदनुष्ठितम् ।
नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म आचरेत् ॥
अनुष्ठितेषु कार्येषु यो गुह्यं न प्रकाशयेत् ।
स तत्र लभते सिद्धिं जलमध्ये कपिर्यथा ॥
अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0