भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1481-1500

1481

अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर्धनंजयेन ।
स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥

1482

अनुभूतचरेषु दीर्घिकाणाम् उपकण्थेषु गतागतैकतानाः ।
मधुपाः कथयन्ति पद्मिनीनां सलिलैरन्तरितानि कोरकाणि ॥

1483

अनुभूतभवव्यवस्थितिर् जनताकानरताभिलाषिणी ।
तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निसृतिः ॥

1484

अनुभूतमिदं लोके यद्बध्वा बलवत्तरैः ।
ईश्वरैर्दुर्बलः कृष्यः क्रतौ पशुरिवाबलः ॥

1485

अनुमतमिवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः ।
मदनहुतभुग्धूमच्छायैः पटैरसितैर्वृताः प्रययुररसद्भूषैरङ्गैः प्रियानभिसारिकाः ॥

1486

अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् ।
अपि पिकदयिते कथं मतिस्ते घटयति निश्फलपिप्पलेऽवलेपम् ॥

1487

अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता ।
इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्ज्ञितः ॥

1488

अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ॥

1489

अनुययौ विविधोपलकुण्डल- द्युतिवितानकसंवलितांशुकम् ।
धृतधनुवलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥

1490

अनुयाताने कजनः परपुरुषैरुह्यतेऽस्य निजदेहः ।
अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ॥

1491

अनुयाति न भर्तारं यदि दैवात् कथंचन ।
तथापि शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः ॥

1492

अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥

1493

अनुयुक्तो दस्युवधे रणे कुर्यात् पराक्रमम् ।
नास्य कृत्यमतः किंचिद् अन्यद् दस्युनिबर्हणात् ॥

1494

अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
वञ्चकवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥

1495

अनुरक्तेन ह्र्ष्टेन तुष्टेन जगतीपतिः ।
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥

1496

अनुरञ्जिता अपि गुणैर् न नमन्ति प्रकृतयो विना दण्डात् ।
अङ्कगतापि न वीणा कलमधुरमताडिता क्वणति ॥

1497

अनुरञ्जय राजानं मा जानन् जातु कोपयेः प्रकृतीः ।
एतद्द्वयानुराग- स्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥

1498

अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।
न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥

1499

अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥

1500

अनुरागवन्तमपि लोचनयोर् दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc