महासुभाषितसंग्रह · श्लोक 1461-1480
अनुदिनमनुकूलमाचरन्तं विहितमतिः प्रतिकूलमाचरेत् कः ।
शमितगरलजातकण्ठदाहं शितिकण्ठः शशिनं शिरह्सु धत्ते ॥
अनुदुनमनुरक्तः पद्मिनीचक्रवाले नवपरिमलमाद्यच्चञ्चरीकानुकर्षी ।
कलितमधुरपद्मः कोऽपि गम्भीरवेदी जयति मिहिरकन्याकूलवन्याकरीन्द्रः ॥
अनुदिनमभ्यासदृढैः सोढुं दीर्घोऽपि शक्यते विरहः ।
प्रत्यासन्नसमाग म- मुहूर्तविघ्नोऽपि दुर्विषः ॥
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ॥
अनुद्घुष्टः शब्दैरथ च घटनातः स्फुटरसः पदानामर्थात्मा रमयति न तूत्तानितरसः ।
यथा दृश्यः किंचित्पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ॥
अनुनयगुरोर्गोष्ठीबन्धो मुखासवसंपदां शपथविवरं विस्रब्धानां धियां प्रथमातिथिः ।
अविनयवचोवादस्थानं पुरंध्रिषु पप्रथे मदविलसितस्यैकाचार्यश्चिरं रतिविभ्रमः ॥
अनुनयति पतिं न लज्जमाना कथयति नापि सखीजनाय किंचित् ।
प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः ॥
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये ।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥
अनुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः ।
यावत् पतितः स तया तत्क्षणमवधीरितः कस्मात् ॥
अनुपायेन कर्माणि विपरीतानि यानि च क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।
अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥
अनुपोष्य त्रिरात्राणि तिर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥
अनुप्रासिनि सन्दर्भे गोनन्दनसमः कुतः ।
यथार्थनामतैवास्य यद्वा वदति चारुताम् ॥
अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥
अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥
अनुभवं वदनेन्दुरुपागमन् नियतमेष यदस्य महात्मनः ।
क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ॥
अनुभवत ददत वित्तं मान्यान् मानयत सज्जनान् भजत ।
अतिपरुषपवनविलुलित- दीपशिखाचञ्चला लक्ष्मीः ॥
अनुभवत युवत्यो भाग्यवत्यो नितान्तं कुसुमवलयवेलासङ्गखेलासुखानि ।
मम तु मधुकराणां वाटपाटच्चराणां सपदि पतति धाटी पुष्पवाटीनिवेशे ॥
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अन्यदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0