महासुभाषितसंग्रह · श्लोक 1441-1460
अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् ।
अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ॥
अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति न वनवृक्षे याति भूमिं लता च ।
त्य्जति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ॥
अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥
अनुचितफलाभिलाषी नित्यं विधिना निवार्यते पुरुषः ।
द्राक्षाविपाकसमये मुखपाको भवति काकानाम् ॥
अनुचितमुचितं वा कर्म कोऽयं विभागो भगवति परमास्तां भक्तियोगो द्रढीयान् ।
किरति विषमहीन्द्रः सान्द्रपीयूषमिन्दुर् द्वयमपि स महेशो निर्विशेषं बिभर्ति ॥
अनुचितमेवाचरितं पशुपतिना यद्विधेः शिरश्छिन्नम् ।
छिन्नो न चास्य हस्तो येनायं दुर्लिपिं लिखति ॥
अनुचिते यदि कर्मणि युज्यते शठधिया प्रभुणा सगुणो जनः ।
भवति नास्य गुणापचयस्ततः पदगतस्य किरीटमणेरिव ॥
अनुच्चनीचचलताम् अङ्गानां चलपादताम् ।
कटिकूर्परशीर्षांशकर्णानां समरूपताम् ॥
रम्यां प्रतीकविश्रान्तिम् उरसश्च समुन्नतिम् ।
अभ्यासाभ्यर्हितं प्राहुः सौष्ठवं नृत्यवेदिनः ॥
अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न खलु परिभूतो दिनकृता ।
कुहूभिर्नो लुप्तो न च युवतिवक्त्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने ।
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥
अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि ।
सम इत्येव भाव्योऽपि नम इत्यभिभाष्यते ॥
अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि ।
वर्णा यथा मषीकल्के तथा सर्गे स्थिताः परे ॥
अनुत्तमानुभावस्य परैरपिहितौजसः ।
अकार्यसुहृदोऽस्माकम् अपूर्वास्तव कीर्तयः ॥
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।
प्राप्यते फलमुत्थानाल् लभते चार्थसंपदम् ॥
अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह ।
पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ॥
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा दशनमुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् ।
मृगपतिशिशोर्नास्त्यद्यापि क्रिया स्वकुलोचिता मदकृतमहागन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥
अनुदिनमतितीव्रं रोदिषीति त्वमुच्चैः सखि किल कुरुषे त्वं वाच्यतां मे मुधैव ।
हृदयमिदमनङ्गाङ्गारसङ्गाद्विलीय प्रसरति बहिरम्भः सुस्थिते नैतदश्रु ॥
अनुदिनमधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रुधारा जहाति ।
कथय कथय कोऽयं यत्कृते कोमलाङ्गि त्यजति न परिणद्धं पाण्डिमानं कपोलः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0