भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1421-1440

1421

अनीर्ष्युर्गुप्तदारः स्यात् संविभागी प्रियंवदः ।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥

1422

अनीशाय शरीरस्य हृदयं स्ववशं मयि ।
स्तनकम्पक्रियालक्ष्यैर् न्यस्तं निःश्वसितैरिव ॥

1423

अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा ।
धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे ध्र्तोऽहम् ॥

1424

अनुकर्तुमपह्नोतुम् अतिवर्तितुमीक्षितुम् ।
अशक्ये तेजसां पत्यौ मित्रतानुमतिक्षमा ॥

1425

अनुकुरुतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्याः ।
विदधाति रन्ध्रमेको गुणवानन्यस्त्वपिदधाति ॥

1426

अनुकूलकलत्रो यस् तस्य स्वर्ग इहैव हि ।
प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥

1427

अनुकूलमर्थ्यमविरोधि हितं श्रवणीयमागमरहस्ययुतम् ।
वचनं मदीयमपकर्णयति क्व मनोभवः क्व गुणसंग्रहणम् ॥

1428

अनुकूलवरपुरंध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।
नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥

1429

अनुकूलविधायिदैवतो विजयी स्यान् ननु कीदृशो नृपः ।
विरहिण्यपि जानकी वने निवसन्ती मुदमादधौ कुतः ॥

1430

अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसंपन्नाम् ।
पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते ॥

1431

अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा ।
एभिरेव गुणैर्युक्ता श्रीरिव स्त्री न संशयः ॥

1432

अनुकूले विधौ देयं यतः पूरयिता हरिः ।
प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥

1433

अनुकूले सति धातरि भवत्यनिष्टादपीष्टमविलम्बम् ।
पीत्वा विषमपि शंभुर् मृत्युंजयतामवाप तत्कालम् ॥

1434

अनुकृतगण्डशैलमदमण्डितगण्डतट- भ्रमदलिमण्डलीनिविडगुङ्गुमघोषजुषः ।
दलयति हेलयैव हरिरुग्रकरान्करिण- स्त्रिजगति तेज एव गुरु नो विकृताकृतिता ॥

1435

अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी ।
इयं नियतमर्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं द्वितयमेतदत्यद्भुतम् ॥

1436

अनुगतपरितोषितानुजीवी मधुरवचाश्चरितानुरक्तलोकः ।
सुनिपुणपरमाप्तसक्ततन्त्रो भवति चिरं नृपतिः प्रदीप्तरश्मिः ॥

1437

अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥

1438

अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः ।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥

1439

अनुगृहाण शिशूनभिलङ्घिता शबरवारिविहारवनस्थली ।
विसृज कातरतामिदमग्रतो हरिनि कारुणिकस्य तपोवनम् ॥

1440

अनुग्रहविधौ देव्या मातुश्च मह्दन्तरम् ।
माता गाढं निबध्नाति बन्धं देवी निकृन्तति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc