भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1401-1420

1401

अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर् धानुष्कस्येव वल्गितम् ॥

1402

अनिर्वाच्यमनिर्भिन्नम् अपरिच्छिन्नमव्ययम् ।
ब्रह्मेव सुजनप्रेम दुःखमूलनिकृन्तनम् ॥

1403

अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।
नरकाय न सद्गत्यं कुपुत्रालम्बिजन्म वै ॥

1404

अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा ।
अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥

1405

अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।
महान् भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥

1406

अनिर्वेदः श्रियो मूलम् अनिर्वेदः परं सुखम् ।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥

1407

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।
करोति सफलं जन्तोः कर्म यच्च करोति सः ॥

1408

अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं सपदि च विनिमीलत्याकुलं त्वद्वियोगात् ।
वपुरसि परमेशस्याचितं नोचितं ते सुरभिमसुरभिं वा यत्समं स्वीकरोषि ॥

1409

अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥

1410

अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।
मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥

1411

अनिशमपि मकरकेतुर् मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥

1412

अनिश्चितैरध्यवसायभीरुभिर् यथेष्टसंलापरतिप्रयोजनैः ।
फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥

1413

अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः ।
यदि स्यात्तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥

1414

अनिष्टदः क्षितीशानां भूकम्पः संध्ययोर्द्वयोः ।
दिग्दाहः पीतवर्णत्वाद् राज्ञां चानिष्टदः परः ॥

1415

अनिष्टयोगात् प्रियविप्रयोगतः परापमानाद्धनहीनजीवितात् ।
अनेकजन्मव्यसनप्रबन्धतो बिभेति नो यस्तपसो बिभेति सः ॥

1416

अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च ।
मानुषा मानसैर्दुःखैर् युज्यन्ते अल्पबुद्धयः ॥

1417

अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥

1418

अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥

1419

अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं बहु न तु विप्रपक्षात् प्रभवतः ।
तमस्याक्रान्तशे कियदपि हि तेजोवयविनः स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥

1420

अनीर्ष्युर्गुप्तदारः स्याच् चोक्षः स्यादघृणी नृपः ।
स्त्रियं सेवेत नात्यर्थं मृष्टं मुञ्जीत नाहितम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc