महासुभाषितसंग्रह · श्लोक 1381-1400
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
पथि संगतमेवैतद् भ्राता माता पिता सखा ॥
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥
अनिद्रो दुःस्वप्नः प्रपतनमनद्रि द्रुमतटं जराहीनः कम्पस्तिमिररहितस्त्राससमयः ।
अनाघातं दुःखं विगतनिगडो बन्धनविधिः सजीवं जन्तूनां मरणमवनीशाश्रयरसः ॥
अनिधाय मुखे पत्रं पूगं खादति यो नरः ।
सप्तजन्मदरिद्रत्वम् अन्ते विष्णुस्थितिश्च न ॥
अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् ।
कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ॥
प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ।
गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ॥
बन्धुभिर्बद्धसंयोगः सुजने चतुरश्रता ।
तच्चित्तानुविधायित्वम् इति वृत्तं महात्मनाम् ॥
अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः ।
स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ॥
अनिबन्धनकचबन्धनम् अनिदानं दानमुत्तरीयस्य ।
आकस्मिकमन्दस्मितम् अपहस्तयतीव बाल्यमेतस्याः ॥
अनिभालित एव केवलं खनिगर्भे निधिरेष जीर्यतु ।
न तु सीदतु मूल्यहानितो वणिजालोकनगोचरीकृतः ॥
अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसंपन् नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥
अनियतरुदितस्मितं विराजत्- कतिपयकोमलदन्तकुड्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ॥
अनियुक्ता हि साचिव्ये यद्वदन्ति मनीषिणः ।
अनुरागद्रवस्यैताः प्रणयस्यातिभूमयः ॥
अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥
अनिरीक्षणमेव दृष्टिरार्द्रा परिहासालपनानि मौनमेव ।
अवधीरणमेव चाभियोगो विनिगूढोऽपि हि लक्ष्यतेऽनुरागः ॥
अनिर्घातं धाराधरमशमनीयं निधिरपाम् अकाठिन्यं चिन्तामणिमजडभूतं सुरतरुम् ।
अभित्त्वोपादाय प्रभुरपशुवृत्तिं च सुरभिं परार्थैकस्वार्थानकृत पुरुषानादिपुरुषः ॥
अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥
कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ॥
ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिननदन्ति द्विषोऽपि स पुमान्पुमान् ॥
अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम् ।
कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0