महासुभाषितसंग्रह · श्लोक 1361-1380
अनाहिताग्निः शतगुर् अयज्वा च सह्स्रगुः ।
सुरापो वृषलीभर्ता ब्रःमहा गुरुतल्पगः ॥
असत्प्रतिग्रहे युक्त्तः स्तेनः कुत्सितयाजकः ।
अदोषस्त्यक्तुमन्योन्यं कर्मसंकरनिश्चयात् ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
विश्वसित्यप्रमत्तेषु मूढचेता नराधमः ॥
अनाहूतः समायातः अनापृष्टस्तु भाषते ।
परनिन्दात्मनः स्तुतिश् चत्वारि लघुलक्षणम् ॥
अनाहूतप्रविष्टस्य दृष्टस्य क्रुद्धचक्षुषा ।
स्वयमेवोपविष्टस्य वरं मृत्युर्न भोजनम् ॥
अनहूताः स्वयं यान्ति रसास्वादविलोलुपाः ।
निवारिता न गच्छन्ति मक्षिका इव भिक्षुकाः ॥
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥
अनाह्वाने प्रवेशश्च अपृष्टे परिभाषणम् ।
आत्मस्तुतिः परे निन्दा चत्वारि लघुलक्षणम् ॥
अनिच्छतोऽपि दुःखानि यथेहायान्ति देहिनः ।
सुखान्यपि तथा मन्ये चिन्तादैन्येन को गुणः ॥
अनिःसरन्तीमपि गेहगर्भात् कीर्तिं परेषामसतीं वदन्ति ।
स्वैरं भ्रमन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सतीं तु ॥
अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥
अनिच्छन्नपि चित्तेन विदेशस्थोऽपि मानवः ।
स्वकर्मोत्पातवातेन नीयते यत्र तत्फलम् ॥
अनिज्यया विवाहैश्च वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥
अनित्यं निस्राणं जननमरणव्याधिकलितं जगन्मिथ्यात्वार्थैरहमहमिकालिङ्गितमिदम् ।
विचिन्त्यैवं सन्तो विमलमनसो धर्ममतयस् तपः कर्तुं वृत्तास्तदपसृतये जैनमनघम् ॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥
अनित्यतासमाख्यानं विषयादिविडम्बनम् ।
पश्चात्तापस्य कथनं कालस्य चरितं तथा ॥
अनित्यते जगन्निन्द्ये वन्दनीयासि संप्रति ।
या करोषि प्रसङ्गेन दुःखानामप्यनित्यताम् ॥
अनित्यत्वे कृतमतिर् म्लानमाल्येन शोचति ।
नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति ॥
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ।
अथ येनैव कुर्वन्ति नैव जातु भवन्ति ते ॥
अनित्यस्य शरीरस्य सर्वदोषमयस्य च ।
दुर्गन्धस्य च रक्षार्थं नाहं पापं करोमि वै ॥
अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0