भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1341-1360

1341

अनाराध्य कालीमनास्वाद्य गौडी- मृते मन्त्रतन्त्राद्विना शब्दचौर्यात् ।
प्रबन्धं प्रगल्भं प्रकर्तुं प्रवक्तुं विरिञ्चिप्रपञ्चे मदन्यः कविः कः ॥

1342

अनारोग्यमनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥

1343

अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥

1344

अनार्यप्रज्ञानामिह जनवधूनां हि मनसो महाशल्यं कर्णे तव कनकजम्बूकिसलयः ।
भ्रमन् भिक्षाहेतोरधिनगरि बुद्धोऽसि न मया ? त्वयैतावद्वेषः पथिक न विधेयः पुनरपि ॥

1345

अनार्यमप्याचरितं कुमार्या भवान् मम क्षाम्यतु सौम्य तावत् ।
हंसोऽपि देवांशतयासि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥

1346

अनार्यवृत्तमप्राज्ञम् असूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥

1347

अनार्येण कृतघ्नेन संगतिर्मे न युज्यते ।
विनाशमपि काङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा ॥

1348

अनालोक्य व्ययं कर्त्ता अनाथः कलहप्रियः ।
आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥

1349

अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस् त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः ।
समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥

1350

अनावर्ती कालो व्रजति स वृथा तन्न गणितं दशास्तास्ताः सोढा व्यसनशतसंपातविधुराः ।
कियद्वा वक्ष्यामः किमिव बत नात्मन्युपकृतं वयं यावत्तावत् पुनरपि तदेव व्यवसितम् ॥

1351

अनावर्जितचित्तापि ध्रुवं सर्वान् प्रधावति ।
फलं न लभते किंचित् तृष्णा जीर्णेव कामिनी ॥

1352

अनाविलं फलं भुङ्क्ते विषयाणामनुत्सुकः ।
उत्सुको लब्धरोकेण तत्र शोकेन शीर्यते ॥

1353

अनावृतनवद्वारपञ्जरे विहगानिलः ।
यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ॥

1354

अनावृताः स्ववर्णेषु सर्वसाधारणाः पुरा ।
नार्यो बभूवुर्निर्वैरो यतः सर्वोऽभवज्जनः ॥

1355

अनावृष्टिहते देशे सस्ये च प्रलयं गते ।
धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम् ॥

1356

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥

1357

अनाश्रिते दृप्तगुरौ अवज्ञां कलयेन् नृपः ।
संवर्तेन मरुत्तस्तु निरस्तमकरोद्गुरुम् ॥

1358

अनास्था वस्तूनामभिमतगुणानामुपहृतौ घनो गर्वस्तन्व्या रुषि च विहिताडम्बरविधिः ।
प्रहारः पादाभ्यां यमनमपि काञ्च्या चरणयोः प्रियाया विब्बोकं तदिदमिति धन्योऽनुभवति ॥

1359

अनास्वादितसंभोगाः पतन्तु तव शत्रवः ।
बालवैधव्यदग्धानां कुलस्त्रीणां स्तना इव ॥

1360

अनास्वाद्यमविक्रेयम् अनादेयमनीप्सितम् ।
दत्तं निरुपकारं यद् वन्ध्यदानेन तेन किम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc