महासुभाषितसंग्रह · श्लोक 1321-1340
अनादायी व्ययं कुर्याद् असहायी रणप्रियः ।
आतुरः सर्वभक्षी च नरः शीघ्रंविनश्यति ॥
अनादिधाविस्वपरंपराया हेतुस्रजः स्रोतसि वेश्वरे वा ।
आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ॥
अनादिष्टोपि भूपस्य दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥
अनादृत्यौचित्यं ह्रियमविगणय्यातिमहतीं यदेतस्याप्यर्थे धनलवदुराशातरलिताः ।
अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिगिदमतिदुष्पूरमुदरम् ॥
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥
अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति संभूता अयोनिज इवानलः ॥
अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ॥
अनायका विनश्यन्ति नश्यन्ति बहुनायकाः ।
स्त्रीनायका विनश्यन्ति नश्यन्ति शिशुनायकाः ॥
अनायके न वस्तव्यं न वसेद् बहुनायके ।
स्त्रीनायके न वस्तव्यं न वसेद् बालनायके ॥
अनायव्ययकर्ता च अनाथः कलहप्रियः ।
आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥
अनायासकृशं मध्यम् अशङ्कतरले दृशौ ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥
अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः ।
फलन्त्युपायाः परिबृंहितायतीर् उपेत्य संघर्षमिवार्थसंपदः ॥
अनारतं प्रतिदिशं प्रतिदेशं जले स्थले ।
जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि ॥
अनारतपरिस्खलन्नयनवारिधाराशत- प्रवृद्धपथनिम्नगासलिलरुद्धयानोद्यमा ।
त्वदीयरिपुकामिनी बहुविदेशयानैषिणी विनिन्दति वलद्दृशा गुरुरुषाश्रुपं प्रावृषम् ॥
अनारब्धाक्षेपं परमकृतवाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपीतं व्यवसितम् ।
कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मूलयति तत् ॥
अनारभ्या भवन्त्यर्थाः केचिन् नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् ।
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0