महासुभाषितसंग्रह · श्लोक 1301-1320
अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः ।
अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥
अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतम् ।
वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् ।
न तु बुद्धिक्षयात् किंचिद् अतिक्रामेत् प्रयोजनम् ॥
अनागतवर्तीं चिन्तां कृत्वा यस्तु प्रहृष्यति ।
स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ॥
अनागतवतीं चिन्तां यो नरः कर्तुमिच्छति ।
स भूमौ पाण्डुरः शेते सोमशर्मपिता यथा ॥
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्ववेव सुखमेधेते दीर्घसूत्री विनश्यति ॥
अनागतविधातारम् अप्रमत्तमकोपनम् ।
स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठति ॥
अनागतविधानं च कर्तव्यं विषये नृपैः ॥
आगमश्चापि कर्तव्यस् तथा दोषो न जायते ॥
अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥
अनागतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ।
त्यक्त्तोपात्तं मद्यपानद्यूतस्त्रीमृगयाप्रियम् ॥
कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ॥
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैर् अनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्त्तारं कमिह समुपस्थास्यति विधिः ॥
अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।
अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ॥
अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥
अनात्मवान् नयद्वेषी वर्धयन्नरिसंपदः ।
प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ॥
अनाथानां दरिद्राणां बालवृद्धतपस्विनाम् ।
अन्यायपरिभूतानां सर्वेषां पार्थिवो गतिः ॥
अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानामभयमधृतीनां भरवशः ।
सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता जगति पुरुषो यः स नृपतिः ॥
अनाथान् रोगिणो यश्च पुत्रवत् परिपालयेत् ।
गुरुणा समनुज्ञातः स भिषक्च्छब्दमश्नुते ॥
अनादरपरो विद्वान् ईहमानः स्थिरां श्रियम् ।
अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥
अनादरहतां सेवां दाम्पत्यं प्रेमवर्जितम् ।
मैत्रीं च हेतुसापेक्षां चे तना नाधिकुर्वते ॥
अनादरालोकविवृद्धशोकः पितुः प्रियावाक्यवशंगतस्य ।
औत्तानपादिर्जगतां शरण्यम् आराध्य विष्णुं पदमग्र्यमायात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0