महासुभाषितसंग्रह · श्लोक 1280-1300
अनवरतनयनविगलित- जललवघटिताक्षसूत्रवलयेन ।
मृत्युंजयमिव जपति त्वद्गोत्रं विरहिणी बाला ॥
अनवरतनयनविगलित- जललवपरिमुषितपत्त्रलेखान्तम् ।
करतलनिषण्णमबले वदनमिदं कं न तापयति ॥
अनवरतपरोपकरण- व्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥
अनवसरे च यदुक्त्तं सुभाषितं तच्च भवति हास्याय ।
रहसि प्रौढवधूनां रतिसमये वेदपाठ इव ॥
अनवस्थितचित्तस्य न जने न वने सुखम् ।
जने दहति संसर्गो वने सङ्गविवर्जनम् ॥
अनवस्थितचित्तानां प्रसादोऽपि भयंकरः ।
सर्पी हन्ति किल स्नेहाद् अपत्यानि न वैरतः ॥
अनवहितः किमशक्त्तो विबुधैरभ्यर्थितः किमतिरसिकः ।
सर्वंकषोऽपि कालस् तिरयति सूक्तानि न कवीनाम् ॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥
अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।
अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥
अनव्यये व्ययं याति व्यये याति सुविस्तृतिम् ।
अपूर्वस्तव कोशोऽयं विद्याकोशेषु भारति ॥
अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके ।
गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरेष धुरंधरम् ॥
अनसूयः कृतप्रज्ञः शोभनान्याचरन् सदा ।
अकृच्छ्रात् सुखमाप्नोति सर्वत्र च विराजते ॥
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ।
कामक्रोधपरित्यागः शिष्टाचारनिदर्शनम् ॥
अनसूयार्जवं शौचं संतोषः प्रियवादिता ।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥
अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः ।
प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ॥
अनाकाशे चन्द्रः सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः सोऽपि तिमिरैः ।
सुधां मुञ्चत्युच्चैरनिशमथ संमोहजननीं किमुत्पातालीयं वदत जगतः कर्तुमुदिता ॥
अनाकूतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् ।
उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी पुलकमुकुलैर्दन्तुरयति ॥
अनाकृष्टस्य विषयैर् विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0