भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1260-1279

1260

अनर्थमकरागाराद् अस्मात् संसारसागरात् ।
उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ॥

1261

अनर्थमर्थतः पश्यन्न् अर्थं चैवाप्यनर्थतः ।
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥

1262

अनर्थां श्चार्थरूपेण अर्थांश्चानर्थरूपतः ।
अर्थायैव हि केषांचिद् धननाशो भवत्युत ॥

1263

अनर्था ह्यर्थरूपाश्च अर्थाश्चानर्थरूपिणः ।
भवन्ति ते विनाशाय दैवायत्तस्य रोचते ॥

1264

अनर्थितर्पणं वित्तं चित्तमध्यानदर्पणम् ।
अतीर्थसर्पणं देहं पर्यन्ते शोच्यतां व्रजेत् ॥

1265

अनर्थित्वान्मनुष्याणां भयात् परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥

1266

अनर्थे चैव निरतम् अर्थे चैव पराङ्मुखम् ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥

1267

अनर्थोऽप्यर्थरूपेण तथार्थोऽनर्थरूपभाक् ।
उत्पद्यते विनाशाय तस्मादुक्तं परीक्षयेत् ॥

1268

अनलंकृतोऽपि माधव हरसि मनो मे सदा प्रसभम् ।
किं पुनरलंकृतस्त्वं संप्रति नखरक्षतैस्तस्याः ॥

1269

अनलः शीतनाशाय विषनाशाय गारुडम् ।
विवेको दुःखनाशाय सर्वनाशाय दुर्मतिः ॥

1270

अनलः सलिलाज्जातः कार्त्तिकेयोऽपि वह्नितः ।
गूढं हि महतां जन्म परिच्छेत्तुं क ईश्वरः ॥

1271

अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् ।
तदनु च नवस्वर्णादर्शप्रभं शशिनस्ततस् तरुणतगराकारं बिम्बं विभाति नभस्तले ॥

1272

अनलस्तम्भनविद्यां सुभग भवान् नियतमेव जानाति ।
मन्मथशराग्नितप्ते हृदि मे कथमन्यथा वससि ॥

1273

अनल्पं जल्पन्तः कति बत गता नो यमपुरं पुरस्तादस्माकं विधृतनयना व्यात्तवदनाः ।
अतीता यद्येवं न हि निजहितं चेतसि वयं वहामो हा मोहाद् विषयविषजातादवसिताः ॥

1274

अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति ।
तदेवं कोऽप्यूष्मा रमणपरिरम्भोत्सवमिलत्- पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ॥

1275

अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् ।
स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥

1276

अनल्पत्वात् प्रधानत्वाद् वंशस्येवेतरे स्वराः ।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥

1277

अनवद्यमवद्यं स्याद् वारुणीलेशमात्रतः ।
तद्वच्छिष्यो विरुद्धार्थाद् विगुरोरेव नश्यति ॥

1278

अनवरतकनकवितरण- जललवभृतकरतरङ्गितार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥

1279

अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc