भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1240-1259

1240

अनम्यासैर्हता विद्या नित्यहासैर्हताः स्त्रियः ।
कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हता नृपाः ॥

1241

अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती विभ्रमजन्मभूमिः ।
वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥

1242

अनभ्रेविद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।
रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥

1243

अनम्राक्रमणं शौर्यं धनं निजभुजार्जितम् भार्या रूपानुरूपा च पुरुषस्येह युज्यते ॥
अन्यथा तु किमेतेन रूपेणापि . . .

1244

अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥

1245

अनयश्च नयश्चापि दैवात् संपद्यते नरैः ।
तद्वशात् कुरुते कर्म शुभाशुभफलं पुमान् ॥

1246

अनया कृतमन्यभुक्तया वसुधागोचरया विरक्तया ।
अतिशायि महेन्द्रयोषितां वपुषा किं न तवावरोधनम् ॥

1247

अनया जघनाभोगभरमन्थरयानया ।
अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥

1248

अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥

1249

अनयानुक्रमणिकया मुक्तामणयो मयाभिहिताः ।
एकैकोऽपि हि भास्वान् किं पुनरेषां निगद्यते निकरः ॥

1250

अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
त्वद्वल्लभा वराक्यो वहन्ति वर्षासु वारीणि ॥

1251

अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥

1252

अनयेनेव राज्यश्रीर् दैन्येनेव मनस्विता ।
मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ॥

1253

अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
अवकाशो न पर्याप्तस् तव बाहुलतान्तरे ॥

1254

अनयो विनयस्तस्य विधिर्यस्यानुवर्तते ।
नयः सम्यक्प्रयुक्तोऽपि भाग्यहीनस्य दुर्नयः ॥

1255

अनर्घ्यं सौन्दर्यं जगदुपरि माधुर्यलहरी- परीतं सौरभ्यं दिशि दिशि रसैकव्यसनिता ।
इति प्रीत्यास्माभिस्त्वयि खलु रसाले व्यवसितं क एवं जानीते यदसि कटुकीटैरुपहतः ॥

1256

अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ।
अनाश्रया न शोभन्ते पण्डिता वनिता लताः ॥

1257

अनर्घ्यलावण्यनिधानभूमिर् न कस्य लोभं लटभा तनोति ।
अवैमि पुष्पायुधयामिकोऽस्याम् अविश्वसन् न क्षणमेति निद्राम् ॥

1258

अनर्घ्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखम् ।
दुर्लभो रत्नकोट्यापि क्षणोऽपि हि गतायुषः ॥

1259

अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् ।
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc