महासुभाषितसंग्रह · श्लोक 1220-1239
अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविध्नता च ।
यत् सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥
अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस् त्रिलोकीयं क्षुद्रा तदिह कथमस्याः स्थितिरिति ।
मुधेयं वः शङ्का कलयत कियद्दर्पणतलं विशाला किं तत्र स्फुरति न कवीन्द्रप्रतिकृतिः ॥
अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले ।
शस्त्रे शास्त्रे त्रिचतुराश् चतुरा यदि मादृशाः ॥
अनन्यक्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय स्वेदाम्बु स्मरमकरसंभुक्त्तविभवम् ।
विदर्भाणां भूरि प्रियतमपरीरम्भरभस- प्रसङ्गादेङ्गानि द्विगुणपुलकासञ्जि तनुते ॥
अनन्यशोभाभिभवेयमाकृतिर् विमानना सुभ्रु कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥
अनन्यसाधारणकान्तिकान्त- तनोरमुष्याः किमु मध्यदेशः ।
जगत्त्रयीजन्मभृतां निषण्णा चित्तावलीयं त्रिवलीमिषेण ॥
अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।
न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥
अनन्यसामान्यतया प्रसिद्धस् त्यागीति गीतो जगतीतले यः ।
अभूदहंपूर्विकया गतानाम् अतीव भूमिः स्मरमार्गणानाम् ॥
अनन्यालम्बनत्वेन प्रेम भागवतं भज ।
नृणां प्रेमेति का मात्रा प्राप्तं प्रेम प्रभोर्यदि ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युंपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
अनन्याश्रितचित्तेन सेवितोऽपि च वारिदः ।
सिंञ्चेन्न चेत् तदा मन्ये चातकस्यैव पातकम् ॥
अनपेक्षितगुरुवचना सर्वान् ग्रन्थीन् विभेदयति सम्यक् ।
प्रकटयति पररहस्यं विमर्शशक्त्तिर्निजा जयति ॥
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥
अनभिज्ञो गुणानां यो न भृत्यैः सोऽनुगम्यते ।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥
अनभिलषतः श्रीलीलाब्जे परागविलेपनं त्रिदशकरिणः पातुं दानप्रवाहमवाञ्छतः ।
त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः ॥
अनभ्यासहतोत्साहा परेण परिभूयते ।
या लज्जाजननी जाड्यात् किं तया मन्दविद्यया ॥
अनभ्यासहता विद्या हतो राजविरोधकृत् ।
जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥
अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥
अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0