महासुभाषितसंग्रह · श्लोक 1200-1219
अनणुरणन्मणिमेखल- मविरतशिञ्जानमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥
अनतिचिरोज्झितस्य जलदेन चिर- स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ।
विरलविकीर्णवज्रशकला सकलाम् इह विदधाति धौतकलधौतमही ॥
अनतिशयं स्वर्णचयं निवहन् नितरां प्रमोदये स्वान्ते ।
किंतु तवैषा संपत् कस्योपकृते प्रतिब्रूहि ॥
अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः ।
किमपि मुखतः कृत्वानीतं वितीर्य सरोजिनी- मधुरसमुषोयोगे जायां नवान्नमचीकरन् ॥
अनधिगतमनोरथस्य पूर्वं शतगुणितेव गता मम त्रियामा ।
यदि तु तव समागमे तथैव प्रसरति सुभ्रुततः कृती भवेयम् ॥
अनधीत्य यथा वेदान् न विप्रः श्राद्धमर्हति ।
एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति ॥
अनधीत्य स्वजशास्त्रं योऽन्यशास्त्रं समीहते वक्तुम् ।
सोऽहेः पदानि गणयति निशि तमसि जले चिरगतस्य ॥
अनधीत्यार्थशास्त्रणि बहवः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥
अनध्यवसितावगाहनमनल्पधीशक्तिनाप्य् अदृष्टपर्मार्थतत्त्वमधिकाभियोगैरपि ।
मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जराम् ॥
अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहनेष्व् अदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे ।
विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा परभणितिकण्डूतिनिकषाः ॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥
अनन्तकोपादिचतुष्टयोदये त्रिभेदमिथ्यात्वमलोदये तथा ।
दुरन्तमिथ्यात्वविषं शरीरिणाम् अनन्तसंसारकरं प्ररोहति ॥
अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सधीबलः ।
धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः ॥
अनन्ततत्त्वं परिगृह्य धात्रा विनिर्मितोऽस्याः किल मध्यभागः ।
अणुः परं योगिदृशानुलक्ष्यः सच्चित्कलास्थैर्यबलावनद्धः ॥
अनन्तनामधेयाय सर्वाकारविधायिने ।
समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥
अनन्तपदविन्यासरचना सरसा कवेः ।
बुधो यदि समीपस्थो न कुजन्यः पुरो यदि ॥
अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः ।
यत् सारभूतं तदुपासनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥
अनन्तरमरिं वद्याद् अरिसेविनमेव च अरेरनन्तरं मित्रम् उदासीनं तयोः परम् ॥
अनन्तविभवभ्रष्टा दौर्ब्भाग्यपरितापिनी ।
शोच्यति प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0