भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1120-1139

1120

अधीतिबोधाचरणप्रचारणैर् दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥

1121

अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ।
नाधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥

1122

अधीत्य चतुरो वेदान् धर्मशास्त्राण्यनेकशः ।
परं तत्त्वं न जानाति दर्वी पाकरसानिव ॥

1123

अधीत्य चतुरो वेदान् व्याकृत्याष्टादश स्मृतीः ।
अहो श्रमस्य वैफल्यम् आत्मापि कलितो न चेत् ॥

1124

अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते ।
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥

1125

अधीत्य वेदान् परिसंस्तीर्य चाग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाश्च ।
गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः संग्रमे क्षत्रियः स्वर्गमेति ॥

1126

अधीत्य सकलं श्रुतं चेरमुपास्य घोरं तपो यदिच्छसि फलं तयोरह हि लाभपूजादिकम् ।
छिनत्सि तरुपल्लवप्रसरमेव शून्याशयः कथं समुपलिप्सते सुरसमस्य पक्वं फलम् ।

1127

अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।
धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥

1128

अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः ।
नात्यन्ताय निवर्तन्ते नरा वषम्यतो विधेः ॥

1129

अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात् तीर्थमुख्यानि चैव ।
अध्यापयेद्याजयेच्चापि याज्यान् प्रतिग्रहान् वा विदितान् प्रतीच्छेत् ॥

1130

तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रयत्तोऽथ दत्त्वा ।
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान् कृत्वा पुण्यकृदावसेद् गृहान् ॥

1131

वैश्योऽधीत्य कृषिगोरक्षपण्यैर् वित्तं चिन्वन् पालयन्नप्रमत्तः ।
प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद् गृहान् ॥

1132

परिचर्यां वन्दनं ब्राह्माणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।
नित्योत्थितो भूतयेऽतन्द्रितहः स्याद् एष स्मृतः शूद्रधर्मः पुराणः ॥

1133

अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
एते पञ्च न पूज्यन्ते बृहस्पतिसमा यदि ॥

1134

अधीराक्ष्याः पीनस्तनकलशमास्कन्दसि मुहुः क्रमादूरुद्वन्द्वं कलयसि च लावण्यललितम् ।
भुजाश्लिष्टो हर्षादनुभवसि हस्ताहतिकलाम् इदं वीणादण्डं प्रकटय फलं कस्य तपसः ॥

1135

अधुना दधिमन्थनानुबन्धं कुरुषे किं गुरुविभ्रमालसाङ्गि ।
कलशस्तनि लालसीति कुञ्जे मुरलीकोमलकाकली मुरारेः ॥

1136

अधुना मधुकरपतिना गिलितोऽप्यपकारदंपती येन ।
त्रातः स पालयेत्त्वां विकाररहितो विनायको लक्ष्म्याः ॥

1137

अधृतपरिपतन्निचोलबन्धं मुषितनकारमवक्रदृष्टिपातं ।
प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशःस्मरचेष्टितं स्मरामि ॥

1138

अधृत यद्विरहोष्मणि सज्जितं मनसिजेन तदूरुयुगं तदा ।
स्पृशति तत्कदनं कदलीतरुर् यदि मरुज्वलदूषरदूषितः ॥

1139

अधोगतिं च सम्प्राप्य बिसाः पङ्ककलङ्किताः ।
गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc