भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1100-1119

1100

अधिगतपरमार्थान् पण्डितान् मावमंस्थास् तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।
अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥

1101

अधिगतमहिमा मनुष्यलोके बत सुतरामवसीदति प्रमादी ।
गजपतिरुरुशैलशृङ्गवऋष्मा गुरुरवमज्जति पङ्कभाङ्न दारु ॥

1102

अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥

1103

अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठाम् ।
दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन् किं नु लोकैरलोकि ॥

1104

अधिगम्याशु गोलक्ष्यम् एकः शाम्यति मार्गणः ।
अनुरोधस्थिरतया न च शक्यप्रतारणः ॥

1105

अधिदेहलि हन्त हेमवल्ली शरदिन्दुः सरसीरुहे शयानः ।
अधिखञ्जनचञ्चु मौक्तिकाली फलितं कस्य सुजन्मनस्तपोभिः ॥

1106

अधिपञ्चवटीकुटीरवर्ति स्फुटितेन्दीवरसुन्दरोरुमूर्ति ।
अपि लक्ष्मणलोचनैकलक्ष्यं भजत ब्रह्म सरोरुहायताक्षम् ॥

1107

अधिभिल्लपल्लिगल्लं स्याद्बल्लवपल्लवोऽपि वाचालः ।
नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥

1108

अधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि ।
जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि ॥

1109

अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ॥

1110

अधिरजनि प्रिअयसविधे कथ्मपि संवेशिता बलाद् गुरुभिः ।
किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥

1111

अधिरजनिमुखे यः सान्द्रलाक्षानुरागैर् व्यतिकरित इवोच्चैः पाटलत्वं दधानः ।
उषसि स खलु दीपः पाननिर्धूतरागः स्फुरदधर इवायं धसरत्वं बिभर्ति ॥

1112

अधिरजनि व्याधगृहे सुखमननभूतमनुभूय ।
अपशोककोकमिथुनं जीवनदानेसमुल्लसति ।

1113

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥

1114

अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरोऽहसत् सपदि कुन्दलता दलतालिनः ॥

1115

अधिश्रीरुद्याने त्वमसि भवतः पल्लवचयो धुरीणः कल्याणे तव जगति शाखा श्रमहरा ।
मुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनभृतां रसाल त्वां तस्माच् छ्रयति शतशः कोकिलकुलम् ॥

1116

अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।
संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥

1117

अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिरेषि चेदुरः ।
स्मराशुगेभ्यो हृदय बिभेतु न प्रविश्य तत्त्वन्मयसपुटे मम ॥

1118

अधीतविद्यैर्विगते शिशुत्वे धनोर्जिते हारिणि यौवने च ।
सेव्या नितम्बास्तु विलासिनीनां ततस्तदर्थं धरणीधराणाम् ॥

1119

अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥
षड्भागस्य न भोक्तासौ रक्षते न प्रजाः कथम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc