भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1080-1099

1080

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥

1081

अधर्मेणैधते तावत् ततो भद्राणि पश्यति ।
ततः सपत्नाञ् जयति समूलस्तु विनश्यति ॥

1082

अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते ।
तादृशैश्च फलैश्चैव सफलो लोभपादपः ॥

1083

अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।
संभोजनीयापदेशैर् जलानीव जलौकसः ॥

1084

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् ।
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥

1085

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥

1086

अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम् ।
दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥

1087

अधस्तनश्वभ्रभुवो न याति षण्- न सर्वनारीषु न सञ्जितोऽन्यतः ।
न जायते व्यन्तरदेवजातिषु न भावनज्योतिषिकेषु सद्रुचिः ॥

1088

अधस्ताच्छिद्रितं चर्म दुर्गन्धिपरिपूरितम् ।
मूत्रक्लिन्नं च तस्यार्थे मा राजन् ब्राह्मणान् वधीः ॥

1089

अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद् विशल्यां सौमित्रैरयमुपनिनायौषधिवराम् ।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥

1090

अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः ॥

1091

अधार्मिकांश्च क्रूरांश्च दृष्टदोषान् निराकृतान् ।
परेभ्योऽभ्यागतांश्चैव दूरादेतान् विवर्जयेत् ॥

1092

अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ॥

1093

अधिकः स्यात् पितुः पुत्रो रूपविद्यापराक्रमैः ।
तिष्ठन् पित्रार्जितपदे सुब्रह्मण्यस्तु तादृशः ॥

1094

अधिकरतलतल्पं कल्पितस्वापलीला- परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥

1095

अधिकार ऋणं गर्भश् चतुर्थं श्वानमैथुनम् ।
आगमे परमं सौख्यं निर्गमे दुःखकारणम् ॥

1096

अधिकाराभिषेकेषु मृदङ्गवचनं शृणु ।
बद्धा दण्डहता रिक्ता भविष्यसि यथा वयम् ॥

1097

अधिकारेण यो युक्तः कथं तस्यास्ति खण्डनम् ।
नीचेषूपकृतं राजन् बालुकास्विव मुद्रितम् ॥

1098

अधिकोन्नतैरपि सुदारुणान्वितैर् असकृद्भ्रमत्पशुगणाङ्घ्रिपीडितैः ।
विधिसिद्धनैकगुणसस्यसम्पदां विरसस्वभावकठिनैरलं खलैः ॥

1099

अधिगगनमनेकास्तारका राज्यभाजः प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वम् ।
दिशि दिशि विलसन्तः सन्ति खद्योतपोताः सवितरि परिभूते किं न लोकैर्व्यलोकि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc