भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0960-0979

0960

अद्यापि तामहमलज्जितपूर्वघृष्टे शय्यातले सुशयितां मदनोत्सवाय ।
वीर्णावतीं विकचचम्पकपुष्पनासां ध्यायामि चेतसि सदा नदतीं शुभाङ्गीम् ॥

0961

अद्यापि तामित इतश्च पुरश्च पश्चाद् अन्तर्बहिः परित एव परिभ्रमन्तीम् ।
पश्यामि फुल्लकनकाम्बुजसंनिभेन् वक्त्रेण तिर्यगपवर्तितलोचनेन ॥

0962

अद्यापि तामुपवने परिचारयुक्तां संचिन्तयाम्युपगतां मदनोत्सवाय ।
मां पार्श्वसंनिहितलोकभयात् सशङ्कं व्यावर्तितेक्षणमनुक्षणमीक्षमाणाम् ॥

0963

अद्यापि तामुभयपार्श्वगहाररम्यां वासन्तिकाकुसुमभासित्तकञ्चुकां च ।
राकाभिरामविधुमण्डलवल्गुववत्रां लावण्यनिर्ज्जितरयां सततं स्मरामि ॥

0964

अद्यापि तामुरसिजद्वयमुन्नमय्य मध्ये वलित्रितयलक्षितरोमराजिम् ।
ध्यायामि वेल्लितभुजां विहिताङ्गभङ्गं व्याजेन नाभिकुहरं मम दर्शयन्तीम् ॥

0965

अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धर्तुं पुनः स्तनतटे गलितं प्रवृत्ता ।
वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यद्करोत् स्मितमायताक्षी ॥

0966

अद्यापि दुर्निवारं स्तुतिकन्या भजति कौमारम् ।
मद्भ्यो न रोचते सा- ऽसन्तोऽप्यस्यै न रोचन्ते ॥

0967

अद्यापि धावति मनः किमहं करोमि सार्धं सखीभिरपि वासगृहे सुकान्ते ।
कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिराम इति यातु मदीयकालः ॥

0968

अद्यापि न स्फुरति केसरभारलक्ष्मीर् न प्रेङ्खति ध्वनितमद्रगुहान्तरेषु ।
मत्तास्तथापि करिणो हरिणाधिपस्य पश्यन्ति भीतमनसः पदवीं वनेषु ॥

0969

अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेरपि हरेत् किमुतास्मदीयम् ।
वक्त्रं सुधामयमहं यदि तत् प्रपद्ये चुम्बन् पिबाम्यविरतं व्यथते मनो मे ॥

0970

अद्यापि नानं हरकोपवह्निस् त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥

0971

अद्यापि रोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं पुष्ठभागे ।
अम्भोनिधिर्वहति दुःसहवाडवाग्निं अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥

0972

अद्यापि मारुतविधूतलतावितानां वीणाविनोदरचनां मम जीवितेशाम् ।
पञ्चेषुराष्ट्रकमलां शुभवेदिमध्यां ध्यायामि चेतसि सर्तीं मदनाभिरामाम् ॥

0973

अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरसुखं मम वल्लभायाः ।
लावण्यनिर्जितरतिक्षतकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥

0974

अद्यापि मे वरतनोर्मधुराणि तस्या यान्यर्थवन्ति न च यानि निरर्थकानि ।
निद्रानिमीलितदृशो मदमन्थरायास् तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥

0975

अद्यापि ये न विहिता विपुलाः प्रबन्धा विद्योतमानविभवाः सुखयन्ति विश्वम् ।
सोऽयं द्विशुद्धगुरुवंशभवः प्रसिद्धो गोपालदत्त उपमेयपदं कथं स्यात् ॥

0976

अद्यापि वासगृहतो मयि नीयमाने दुर्वारभीषणकरैर्यमदूतकल्पैः ।
किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यत इति व्यथते मनो मे ॥

0977

अद्यापि विस्मयकरी त्रिदशान् विहाय बुद्धिर्बलाच्चलति मे किमहं करोमि ।
जानन्नपि प्रतिमुहूर्तमिहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥

0978

अद्यापि शीतद्युतिरात्मबिम्बं निर्माय निर्माय पुनर्भुनक्ति ।
तस्या मुखेनायतलोचनायाः कर्तुं न शक्तिः सदृशं प्रियायाः ॥

0979

अद्यापि श्रवसी न कुण्डलचले केलिक्वणत्कङ्कणौ बाहू नापि न हारिहारवलयालुण्ठा च कण्ठावनिः ।
अस्याः पश्य तथापि पङ्कजदृशो विश्वं प्रियं भावुकं पश्यामः स्फुटताविभूषणकराभोगं वपुर्वैभवम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc