भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0940-0959

0940

अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् ।
तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥

0941

अद्यापि तां सुरतलब्धयशःपताकां लम्बालकां विरहपाण्डुरगण्डभित्तिम् ।
स्वप्नेऽपि लोलनयनां क्षणदृष्टनष्टां विद्यां प्रमादगुणितामिव संस्मरामि ॥

0942

अद्यापि तां सुरभिनिर्भरदन्तभाजं धावन्तमास्यकमलं चलचञ्चरीकम् ।
किंचिच्चलल्ललितकुञ्चितवामनेत्रां पश्यामि केलिकमलेन निवारयन्तीम् ॥

0943

अद्यापि तां सुवदनां वलभौ निषण्णां तद्गेहसंनिधिपदे मयि दृष्टमात्रे ।
वीतोत्तरां प्रियसखीषु कुतस्मरासु लज्जाविलासहसितां हृदि चिन्तयामि ॥

0944

अद्यापि तां सुवदनां स्तनभारनभ्रां श्यामां च वामनयनां रमणीयगात्रीम् ।
निद्रालसामलकनिर्जितषट्पदालिं संचिन्तयामि सततं स्मरवैजयन्तीम् ॥

0945

अद्यापि तां सुशयितां क्षणविप्रबुद्धां निद्रालसां हृदि वहामि कृताङ्गभङ्गाम् ।
जृम्भावतीर्णमुखमारुतगन्धलब्ध- मुघभ्रमद्भ्रमरविभ्रमलोलनेत्राम् ॥

0946

अद्यापि तां स्तिमितवस्त्रमिवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहाम् ।
बालामनाथशरणामनुकम्पनीयां प्राणाधिकां क्षणमहं न हि विस्मरामि ॥

0947

अद्यापि तानि स्मितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि ।
आन्दोलनश्रमजलाकुलविह्वलाङ्गीं श्वासोत्तरं च निभृतं च मुहुर्वदन्तीम् ॥

0948

अद्यापि तानि परिवर्तितकंधराणि किंचित्क्षुतत्रुटितकञ्चुकजालकानि ।
तस्या भुजाग्रलुलदुद्वलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि ॥

0949

अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि ।
तस्याः स्मरज्वरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥

0950

अद्यापि तानि मम चेतसि संस्फुरन्ति बिम्बोष्ठदेशपरिकीर्णशुचिस्मतानि ।

0951

अद्यापि तानि मृदुवाक्यसुभाषितानि तिर्थग्विवर्त्तिनयनान्तनिरीक्षणानि लीलालसाञ्चितगतानि शुचिस्मितानि तस्याः स्मरामि मदविभ्रमचेष्टितानि ॥

0952

अद्यापि तामनिभृतक्रममागतं च मां द्वारि वीक्ष्य शयने निमिषेण सुप्ताम् ।
मन्दं मयि स्पृशति कण्डकिताङ्गयष्टिम् उत्फुल्लगण्डफलकां बहुशः स्मरामि ॥

0953

अद्यापि तामनुनयत्यपि चाटुपूर्वं कोपात् प्राकृतमुखीं मयि सापराधे ।
आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं मामेते दुःसहमिवोक्तवतीं स्मरामि ॥

0954

अद्यापि तामनुनयत्यपि मय्यसक्तां व्यावृत्त्य केलिशयने शयितां पराचीम् ।
निद्राकुलामिव ममाभिमुखीभवन्तीं प्रातर्मदङ्गनिहितैकभुजां स्मरामि ॥

0955

अद्यापि तामभिविशालनितम्बबिम्बां गम्भीरनाभिकुहरां तनुमध्यभागाम् ।
अम्लानकोमलमृणालसमानबाहुं लीलालसाञ्चितगतिं मनसा स्मरामि ॥

0956

अद्यापि तामरुणयत्यरुणेन्तरिक्षम् आपृच्छमानमपि नाम विधारयन्तीम् ।
उत्थाप्य निश्चलदृशौ मम निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं स्मरामि ॥

0957

अद्यापि तामलमसीलितचारुनेत्रां लोलद्भुजावलयझंकृतिमावहन्तीम् ।
वेल्लत्करोरुकुचमुन्नमितस्वकर्णे कण्डूयनं विदधतीं हृदि चिन्तयामि ॥

0958

अद्यापि तामवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् ।
नान्योपभुक्तनवयौवनभारसारां जन्मान्तरेऽपि मम सैव गतिर्यथा स्यात् ॥

0959

अद्यापि तामविगणय्य कृतापराधम् आपादमूलपतितं सहसा चलन्तीम् ।
वस्त्राञ्चलं मम करान्निजमाक्षिपन्तीं मा मेति रोषपरुषं वदतीं स्मरामि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc