महासुभाषितसंग्रह · श्लोक 0920-0939
अद्यापि तां मयि गते चिरकोपयन्तीं यान्तीं समागतवतीं परिवर्तमानाम् ।
ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रतवतीमधिकं स्मरामि ॥
अद्यापि तां मयि दृशं तुदतीं स्मरामि स्मेरां स्मरद्वरकरां मधुरां सुताराम् ।
अत्युद्बलां सुरतलां कुटिलां सुशीलां निष्पन्दमन्दसमदप्रमदप्रसादाम् ॥
अद्यापि तां मयि निमीलितचारुनेत्रे कोऽयं वदेत्यभिहितां वदतीं सखीभिः ।
मातर्न विद्य इति सस्मितमुल्लसन्तीम् उत्फुल्लगण्डफलकां नितरां स्मरामि ॥
अद्यापि तां मसृणचन्दनपङ्कमिश्र- कस्तूरिकापरिमलोत्थविसर्पिगन्दाम् ।
अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म - युग्माभिरामनयनां शयने स्मरामि ॥
अद्यापि तां मुखगतैररुणैः कराग्रैर् आपृच्छ्यमानमपि मां न विभाषयन्तीम् ।
तद्वाष्पपूरितदृशं बहु निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं स्मरामि ॥
अद्यापि तां पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् ।
संपीड्य बाहुयुगलेन पिबामि वक्त्रम् उन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥
अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् ।
अङ्गैरहं समुपगूह्म ततोऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥
अद्यापि तां रहसि दर्पणमीक्षमाणाम् दृष्ट्वा स्फुटं प्रतिनिधिं मयि पृष्ठलीने ।
पश्यामि वेपथुमतीं च सुविभ्रमां च लज्जाकुलां च समुदं जितमन्मथां च ॥
अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् ।
सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि ॥
अद्यापि तां विधृतककज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् ।
सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि ॥
अद्यापि तां विरहवह्रि निपोडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् ।
नानाविचित्रकुतमण्डनमावहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥
अद्यापि तां विहसीतां काचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् ।
तत्केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥
अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनरहं यदि गौरकान्तिम् ।
पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ॥
अद्यापि तां शिखरचारुवलक्षदन्तैर् मुख्यानि कुन्दमुकुलानि जितां च साध्वीम् ।
संचिन्तयामि सततं प्रविलोलिचित्तां कामेषुनीरजदृशं वनजावतंसाम् ॥
अद्यापि तां समपनीतनितम्बवस्त्रां श्यामां च साध्वसरसाकुलविह्वलाङ्गीम् ।
एकेन पाणिकमलेन पिधाय गृह्यम् अन्येन नाभिकुहरं दधतीं स्मरामि ॥
अद्यापि तां सललितश्लथकेशपाशाम् ईषत्समुन्मिषितघूर्णितवक्रनेत्राम् ।
सुप्तोत्थितां विदधतीं मुहुरङ्गभङ्ग पश्यामि दष्टमधरं बहुशः स्पृशन्तीम् ॥
अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत्सदृशतो वदनं कदाचित् ।
सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्तामिहातिविमलत्वमहागुणेन ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टगलितांशुककेशपाशाम् ।
शृङ्गारवारिरुहकाननराहहंसीं जन्मान्तरेऽपि निधनेऽप्यनुचिन्तयामि ॥
अद्यापि तां सुरतजागरघूर्णमान- तिर्यग्वलत्तरलतारक्दीर्घनेत्राम् ।
शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनामुषसि स्मरामि ॥
अद्यापि तां सुरतताण्डवसूत्रधारं दुर्वारदर्पजघनग्लपिताङ्गयष्टिम् ।
अङ्गं रसैः समुपगुह्य कटिं दधानां किंचिन्निमीलनयनां मनसा स्मरामि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0