महासुभाषितसंग्रह · श्लोक 0900-0919
अद्यापि तां जघनदर्शनलालसेन कृष्टं मया निवसनांचलमेकपार्श्वात् ।
पूज्य स्थितामपि ततो मुहुराकृषन्तीं मन्दाक्षसंकुचितनूत्नमुखीं स्मरामि ॥
अद्यापि तां झटिति वक्रितकन्धराग्रां निक्षिप्तपाणिकमलां च नितम्बमिम्बे ।
वासांसपार्श्वलसदुल्बणकेशपाशां पश्यामि मां प्रति दृशं बहुशः क्षिपन्तीम् ॥
अद्यापि तां धवलवेश्मनि रत्नदीप- मालामयूखपटलैर्दलितान्धकारे ।
प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्तनयनामनुचिन्तयामि ॥
अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं मयास्यमधुपानविमोहितेन ।
उद्भिन्नरोमपुलकैर्बहुभिः समन्ताज् जागर्ति रक्षति विलोकयति स्मरामि ॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी शापं गता सुरपतेरथ कृष्णलक्ष्मीः ।
धत्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया वा ॥
अद्यापि तां नववयःश्रियमिन्दुवक्त्रां उत्तुङ्गपीवरपयोधरभारखिन्नाम् ।
संपीड्य बाहुयुगलेन पिबामि वक्त्रां प्रोन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥
अद्यापि तां निजवपुःकृशवेदिमध्याम् उत्तुङ्गसंभृतसुधास्तनकुम्भयुग्माम् ।
नानाविचित्रकृतमण्डनम्ण्डिताङ्गीं सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥
अद्यापि तां निधुवनक्लमनिःसहाङ्गीम् आपाण्डुगण्डपतितालककुन्तलालीम् ।
प्रच्छन्नपापकृतमन्तरिवावहन्तीं कण्ठावसक्तमृदुबाहुलतां स्मरामि ॥
अद्यापि तां निधुवने मधुपानरक्तां लीलाधरां कृशतनुं चपलायताक्षीम् ।
काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥
अद्यापि तां निभृतवक्त्रकमापतन्तं मां द्वारि वीक्ष्य सहसैव मिषेण सुप्ताम् ।
मन्दं मयि स्पृशति कण्टकिताङ्गयष्टिम् उत्फुल्लगल्लफलकां बहुशः स्मरामि ॥
अद्यापि तां नृपतिशेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम् ।
गन्धर्वयक्षसुरकिन्नर्नागकन्यां स्वर्गादहो निपतितामिव चिन्तयामि ॥
अद्यापि तांप्रणयिनीं मृगशावकाक्षीं पीयूषपूर्णकुचकुम्भयुगं वहन्तीम् ।
पश्याम्यहं यदि पुर्नदिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥
अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटितामवनीशपुत्रीम् ।
हंहो जना मम वियोगहुताशनोऽयं सोढुं न शक्यत इति प्रतिचिन्तयामि ॥
अद्यापि तां प्रथममेव गतं विरागं निर्भर्त्स्य रोषपरुषैर्वचनैर्मुहुर्माम् ।
आन्दोलनेन च नितम्बसहायवृत्त्या सम्चिन्तयामि रत्ये सुदतीमभीक्ष्णम् ॥
अद्यापि तां प्रथमसंगमजातलज्जां बालां रसेन पतिते मयि मन्दपीठे ।
फूर्कारकम्पितशिखातरलप्रदीपं कर्णोत्पलेन विनिवारयतीं स्मरामि ॥
अद्यापि तां भुजलतार्पितकण्ठपाशां वक्षःस्थलं मम पिधाय पयोधराभ्याम् ।
ईषन्निमीलितसलीलविलोचनान्तां पश्यामि मृग्धवदनां वदनं पिबन्तीम् ॥
अद्यापि तां मदनमन्दिरवैजयन्तीम् अन्तर्गृहे विवसनां दधतीं निशान्ते ।
अङ्गैरनङ्गविसरैर्मम गाढ्मङ्गम् आलिङ्ग्य केलिशयने शयितां स्मरामि ॥
अद्यापि तां मम मनःपरितापशान्त्यै चक्षुर्विशुद्धतटिनीमलसालसाङ्गीम् ।
श्रीखण्डखण्डखचिताचितगात्रयिष्टं तन्वीं सदा हृदयहर्षनिधिं स्मरामि ॥
अद्यापि तां मयि कपाटसमीपलीने मन्मार्गदत्तदृशमाननदत्तहस्ताम् मद्गोत्रचिह्नितपदं मृदुकाकलीभिः किंचित्तरङ्गमनसं मनसा स्मरामि ॥
अद्यापि तां मयि कृतागसि दृष्टभावां भाषां लपत्यपि मुहुर्निगृहीतवाचम् ।
रामां विरुद्धघनमन्युसबाष्पकण्ठां निःश्वासशुष्यदधरां रुदतीं स्मरामि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0