महासुभाषितसंग्रह · श्लोक 0879-0899
दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्याः स्मरामि रतिबन्धुरनिष्ठुरत्वम् ॥
अद्यापि तत्सुरतकेलिविमर्दखेद- संजातघर्मकणविस्फुरितं प्रियायाः ।
आपाण्डुरं तरलतारनिमीलिताक्षं वक्त्रं स्मरामि परिपूर्णनिशाकराभम् ॥
अद्यापि तद्वदनपङ्कजगन्धलुब्ध- भ्राम्यद्द्विरेफचयचुम्बितगण्डयुग्मम् ।
लीलावधूतकरपल्लवकङ्कनानां क्वाणो विमूर्च्छति मनः स्तुतरां मदीयम् ॥
अद्यापि तद्विकसिताम्बुजमध्यगौरं गोरोचनातिलकभासुरफालरेखम् ।
ईषन्मदालसविघूर्णितदृष्टिपातं तस्या मुखं प्रति मनो मम गच्छतीदम् ॥
अद्यापि तन्नयनकज्जलमुज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोः ।
पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणं वपुर्यदि विनश्यति नो न दोषः ॥
अद्यापि तन्मदनकार्मुकभङ्गुरभ्रु- दन्तद्युतिप्रकरकर्बुरिताधरोष्ठम् ।
कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं तस्याः पुनः पुनरपीह मुखं स्मरामि ॥
अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या ॥
अद्यापि तां कनककङ्कणभूषिताग्र- हस्तां च वक्त्रकमलेन सुनिर्जितेन्दुम् ।
लीलावर्तीं सुरतखेदनिमीलिताक्षीं ध्यायामि चेतसि मदाकुललालसाङ्गीम् ॥
अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतितामिव चेष्टमानाम् ।
अङ्गाङ्गसङ्गपरिचुम्बनजातमोहां तां जीवनौषधिमिव प्रमधां स्मरामि ॥
अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम् ।
सुप्तोत्थितां मदनविह्वलसालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि ॥
अद्यापि तां कनकपत्रसनाथकर्णाम् उत्तुङ्गकर्कशकुचार्पिततारहाराम् ।
काञ्चीनिपुञ्जितविशालनितम्बबिम्बाम् उद्दाननूपुररणच्चरणां स्मरामि ॥
अद्यापि तां कटिसमार्पितवामपाणिम् आकुञ्चितैकचरणाग्रनिरुद्धभूमिम् ।
स्तम्भावलम्बितभुजां पथि मां व्रजन्तं पश्यामि बन्धुरितकंधरमीक्षमाणाम् ॥
अद्यापि तां कुटिलकुन्तलकेशपाशाम् उन्तिद्रतामरसपत्रविशालनेत्राम् ।
उत्तुङ्गपीवरपयोधरकुङ्मलाढ्यां ध्यायामि चेतसि यथैव गुरूपदेशम् ॥
अद्यापि तां क्षणवियोगविषोपमे यां सङ्गे पुनर्बहुतराममृताभिषेकाम् ।
तां जीवधारणकरीं मदनातपत्राम् उद्धृत्तकेशनिवहां सुदतीं स्मरामि ॥
अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखाम् ।
शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् ॥
अद्यापि तां गतिनिराकृतराजहंसीं धम्मिल्लनिर्जितकलापमयूखभासाम् ।
मत्तश्रिया मदचकोरविलोलनेत्रां संचिन्तयामि कलकण्ट्जसमानकण्ठाम् ॥
अद्यापि तां गमनमित्युदितं मदीयं श्रुत्वैव भीरुहरिणीमिव चञ्चलाक्षीम् ।
वाचः स्खलद्विगलदश्रुहलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥
अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम् ।
पीनोन्नतस्तनयुगोपरिचारुचुम्बन्- मुक्तावलीं रहसि लोलदृशं स्मरामि ॥
अद्यापि तां चिरयिते मयि तन्निवासं रात्रौ समागतवतीं परिवर्तमानाम् ।
गत्वा स्मितं किमपि चण्चलितां निषण्णां सख्या समागतवतीमधिकं स्मरामि ॥
अद्यापि तां जगति वर्णयितुं न कश्चिच् छक्नोत्यदृष्टसदृशीं च परिग्रहं मे ।
दृष्टं द्वयोः सदृशयोः खलु येन रूपं शक्तो भवेद्यदि स एव नरो न चान्यः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0