महासुभाषितसंग्रह · श्लोक 0861-0880
अद्य भोमिदिनं सत्यं सत्यमप्रस्तुतं तव ।
तथापि दूति गन्तव्यं नार्तः कालमपेक्षते ॥
अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् ।
आगतासि भवनं मम यस्मात् स्वागतं तव वरोरु निषीद ॥
अद्य यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ ।
आस्थितावितथतागुणपाशस् त्वादृशा स विदुषा दुरपासः ॥
अद्य शीतं वरिवर्ति सरीसर्ति समीरणः ।
अपत्नीको मरीमर्ति नरीनर्ति कुचोष्णवान् ॥
अद्य स प्रवसतीति सुभ्रुवः श्रोत्रसीमनि विजृम्भिते ध्वनौ ।
सद्य एव निजपाणिगुम्फिते पुष्पदामनि महोरगभ्रमः ॥
अद्य सुन्दरि कलिन्दनन्दिनी- तीरकुञ्जभुवि केलिलम्पटः ।
वादयन् मुरलिकां मुहुर्मुहुर् माधवो हरति मामकं मनः ॥
अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्जवलाम् उच्चैर्गायति निष्कलङ्किमदशामादास्यते चन्द्रमाः ।
गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्नङ्कमृगः कियन्ति हि दिनान्येतस्य वर्तिष्यते ॥
अद्य स्वां जननीमकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुमितो गतो गृहपतिः क्षुत्वैव मध्यंदिने ।
पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् दृष्टोऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥
अद्यापि कोकनदचारुसरेखहस्तां तां शातकुम्भकलशस्तनचारुगात्रीम् ।
बिम्बाधरीं विषमबाणनिपीडिताङ्गीं संचिन्तये द्व्यणुकमध्यतनुप्रकाशाम् ॥
अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम् ।
चुम्बामि रोदति भृशं पतितोऽस्मि पादे दासस्तव प्रियतमे भज मां स्मरामि ॥
अद्यापि चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः ।
अव्यक्तनिःस्वनितकातरक्थ्यमान- संकीर्णवर्णरुचितं वचनं प्रियायाः ॥
अद्यापि तत्कनककुण्डलघृष्टगण्डम् आस्यं स्मरामि विपरीतरताभियोगे ।
आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥
अद्यापि तत्कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वद्नं प्रियायाः ।
अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तमिवेन्दुबिम्बम् ॥
अद्यापि तत्कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बर्मुत्थिताया लज्जावशात् करधृतं च ततो व्रजन्त्याः ॥
अद्यापि तत्कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं प्राणांस्त्यजामि नियतं तदवाप्तिहेतोः ॥
अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैर्मया दशनवाससि खण्ड्यमाने ।
तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण- सीत्कारगर्भमसकृद्वदनं स्मरामि ॥
अद्यापि तत्तरलतारकिताक्षमास्यम् आलिप्रचन्दनरसाहितशोभमस्याः ।
कस्तूरिकातिलकतारकिताभिराम- गण्डस्थलद्युति मुहुर्मनसा स्मरामि ॥
अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् ।
वस्त्राञ्चलस्खलनचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥
अद्यापि तत्सपरिवेषशशिप्रकाशम् आस्यं स्मरामि जड्गात्रविवर्तनेषु ।
तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ- दोः कन्दलीयुगलकं दयितं प्रियायाः ॥
अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम् ।
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0