भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0841-0860

0841

अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम् ।
नान्तरेण क्रियां तेषां फल्मिष्टं प्रवर्तते ॥

0842

अदृष्टपूर्वः कण्ठोऽयं कान्ताया भुवन्त्रये ।
यस्माद्विणानिनादस्य समुद्भूतिर्विभाव्यते ॥

0843

अदृष्टपूर्वमस्माभिर् यदेतद्दृश्यतेऽधुना ।
विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥

0844

अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः ॥

0845

अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति वश्याः ।
अर्थाद्विहीनस्य पदच्युतस्य भवन्ति काले स्वजनोऽपि शत्रुः ॥

0846

अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ।
अहो बत महत् कष्टं चक्षुष्मानपि याचते ॥

0847

अदृष्टव्यापारं गतवति दिनानामधिपतौ यशः शेषीभूते शशिनि गतधाम्नि ग्रहगणे ।
तथान्धं संजातं जगदुपनते मेघसमये यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥

0848

अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
तदृष्टेन न दृष्टेन भत्रता लभ्यते मुखम् ॥

0849

अदेशकालार्थमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः ।
विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं न तद्वचो हालहलं हि तद्विषम् ॥

0850

अदेशकाले यद् दानम् अपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृदम् ॥

0851

अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
ग्राहोऽल्पीयानपि जले जलेन्द्रमपाइ कर्षति ॥

0852

अदैवं दैवतं कुर्युर् दैवतं चाप्यदैवतम् ।
लोकपालान् सृजेयुश्च लोकानन्यांस्तथा द्विजः ॥

0853

अदोषाद्दोषाद्वा त्यज्ति विपिने तां यदि भवान् अभ्रद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः ।
इदं क्रूरं मे स्मरति हृदयं यत् किल तया त्वदर्थ कान्तारे कुलतिलक नात्मापि गणितः ॥

0854

अद्भिः शुध्यन्ति वस्त्राणि मनः सत्येन शुध्यति ।
अहिंसया च भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥

0855

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥

0856

अद्भुतस्तक्र्पाथोधिर् अगाधी यस्य वर्धकः ।
अक्षपादोऽतमःस्पृष्टस् त्वकलङ्कः कलानिधिः ॥

0857

अद्भ्यो ऽग्निर्ब्रह्मतःक्षत्रम् अश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु साम्यति ॥

0858

अद्यतनो योद्धव्ये शकुनो विहयाय याक्रिकविरुद्वः ।
दिवसान्तरिते युद्धे क्षेमः प्रास्थानिकः शकुनः ॥

0859

अद्य धारा सदाधारा सदालम्बा सरस्वती ।
पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते ॥

0860

अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc